________________
अध्य० २६
॥५॥
उत्तराध्यवनसूत्रम्
न्तानुबन्धिक्रोधमानमायालोभान क्षपयति, तथा च नवं कर्म प्रक्रमादशुभं न बध्नाति, 'तत्प्रत्ययिकां च' कषायक्षयहेतुकां च 'मिथ्यात्वविशुद्धि' सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्धया च 'विशुद्धया' निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्धथति मरुदेवीवत् , यस्तु तेनैव भवेन न सिध्यति स किमित्याह-"सोहीएति" शुद्धया प्रक्रमादर्शनस्य विशुद्ध्या तृतीयं पुनर्भवग्रहणं नातिक्रामति, उत्कृष्टदर्शनाराधनापेक्षमेतत् , यदुक्तं-“उक्कोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहिं सिज्मइ ? गोत्रमा ! उक्कोसेणं तेणेव, तइग्रं पुण नाइक्कमइति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न व्याख्यास्यन्ते ॥१॥३॥ संवेगादवश्यं निर्वेदः स्यादिति तमाहमूलम्--निव्वेएणं भंते ! जीवे किं जणयइ? निव्वेएणं दिव्वमाणुस्सतेरिच्छिएसु कामभोगेसु निव्वेअंहठवमागच्छइ, सव्वविसएसु विरज्जइ, सव्वविसएसु विरज्जमाणे आरंभपरिच्चायं करेइ, आरंभपरिच्चायं करेमाणे संसारमग्गं वुच्छिदइ, सिद्धिमग्गपडिवण्णे अ भवइ ॥२॥४॥ ___ व्याख्या-'निदेन' सामान्यतः संसारविरागेण कदाऽसौ त्याज्य इति धिया दिव्यमानुषतैरश्चेषु कामभोगेषु 'निर्वेदं यथाऽलमेभिरनथहेतुभिरिति भावं 'हव्वमागच्छति' तूर्णमाप्नोति, तथा च 'सर्वविषयेषु' समस्तसांसारिकवस्तुषु विरज्यते, विरज्यमानश्चारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिकं व्यवच्छिनत्ति, तत्त्याग एव तत्त्वत आरम्भपरिहारसम्भवात् , तव्यवछित्तौ च सुप्राप एव मुक्तिमार्गः सम्यगदर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥ २॥ ४ ॥ निवेदोऽपि धर्मश्रद्धावतामेव स्यादिति तामाह
タースターシーマスター・ー・ーーーーーーーーー
स