________________
.
उत्तराध्य
यनसूत्रम्
मध्य०२६
॥ अथ एकोनत्रिंशमध्ययनम् ॥ भाग ४ ॥ अहं ॥ व्याख्यातमष्टाविंशमध्यनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारम्यते । अस्य चार्य सम्बन्धोऽनन्तराध्ययने मोक्षमार्गगतिरुक्का सा च वीतरागत्वपूविकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यासोदमादित्रम्HAI मूलम्-सुमं मे आउर्स ! तेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरकमे नामज्झयणे समणेणं भग
वया महावीरेण कासवेणं पवेइए । जं सम्मं सद्दहित्ता पत्तिाइत्ता रोअइत्ता फासित्ता पालइत्ता तीरइत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझति बुज्झति
मुच्चति परिनिव्वायंति सव्वदुःक्खाणमंतं करेंति ॥१॥ व्याख्या-श्रतं 'मे' मया आयुष्मन्निति शिष्यामंत्रणं, एतच्च सुधर्मस्वामी जम्बूस्वामिनमाह, तेन जगत्त्रयप्रतीतेन भगवता प्रक्रमात् श्रीमहावीरेण 'एयमिति' वक्ष्यमाणप्रकारेणाख्यातं, तमेवं प्रकारमाह-इहास्मिन् प्रवचने खलु निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोसरगुणप्रतिपल्या कर्मारिजयसामर्थ्यरूपोऽर्थाज्जीवस्य वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति शेषः। तच्च केन प्रणीतमित्याहश्रमणेन भगवता महावीरेण काश्यपेन श्रीवर्द्धमानस्वामिनैव प्रवेदितं, स्वतोविदितमेव भगवता ममेदमाख्यातमिति भावः। अस्यैव माहात्म्यमाह-'जति' यत्प्रस्तुताध्ययनं 'सम्यक् अवैपरीत्येन 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य, 'प्रतीत्य' विशेषत इदमित्थमेवेति निश्चित्य, 'रोचयित्वा' तत्पठनादिविषयमभिलाषमात्मन उत्पाद्य, 'स्पृष्टवा' योगत्रिकेण तत्र मनसा सूत्रार्थयोश्चिन्तनेन वचसा वाचनादिना