________________
उत्तराध्य यनसूत्रम् ॥२६॥
eee GeeSVAVA Teleeeeeeeee
इदं च क्षपकश्रेण्युपशमश्रेण्योर्लोभाणुवेदनसमये स्यात् ॥ ३२ ॥'अकषाय' अनुदितकार्य क्षपितोपशमितकषायावस्थाभावि 'यथाख्यात'
अध्य०२८ जिनोक्तस्वरूपमनतिक्रान्तं, 'छमस्थस्य ' उपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनो, 'जिनस्य वा' केवलिनः सयोग्ययोगिगुणस्थानद्वय स्थायिनो भवतीति शेषः । "एअंति" एतदनन्तरोक्तं सामायिकादिपञ्चमेदं चयस्य राशेः प्रक्रमाकर्मणां रिक्तं विरेकोऽभाव इत्यर्थः, त
॥२६॥ करोतीति चयरिक्तकरं चारित्रं भवत्याख्यातं जिनादिभिरिति गम्यते इति सूत्रद्वयार्थः ॥३३।। सम्प्रति तपोरूपं चतुर्थ कारणमाहमूलम्-तवो अ दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥ ३४ ॥ ___ व्या०-अस्याक्षरार्थः स्पष्टो भावार्थस्तु तपोध्ययने वक्ष्यते ॥ ३४ ।। अथैषां मुक्तिमार्गत्वे कस्य कतरो व्यापार इत्याहमूलम-नाणेण जाणई भावे, दंसणेण य सद्दहे । चरित्तेण न गिराहाइ, तवेण परिसुज्झइ ॥ ३५ ॥
व्या०–ज्ञानेन श्रुतादिना जानाति भावान् जीवादीन् , दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनिरोधरूपेण न गृह्णाति नादत्ते कर्मेति गम्यते, तपसा परिशुध्यति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति मोक्षफलभूतां गतिमाहमूलम् - खबित्ता पुवकम्माइं संजमेण तवेण य । सव्वदुक्खाहीणट्ठा, पक्कमति महेसिणोत्ति बेमि ॥३६॥2
व्या०-सनदुक्खप्हीणठत्ति' सर्वैः दुःखैः प्रहीणः सर्वदुःखपहीणो-मोक्षस्तमर्थयन्ति ये ते सर्वदुःखपहीणार्थाः, यद्वा प्रक्षीणानि सर्वदुःखानि अर्थाश्व कार्याणि येषां ते तथा 'प्रक्रामन्ति' गच्छन्ति मुक्तिमिति शेषः "महेसिणोति" महर्षय इति सूत्रार्थः ।। ३६ ॥ इति ब्रवीमीति प्राग्वत् ॥
BeeG CCTeeeeeeeeeeeeeeeee