________________
अध्य०२८ ॥२६६॥
उचराध्य- शेषः, पूर्व वा चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा. तयोः सहभावो, यदा तु पूर्व सम्यक्त्वं तदा तत्र चारित्रं भापनस्त्रम् ज्यम् ॥ २६ ॥ अन्यच्च-न 'श्रदर्शनिनः' सम्यक्त्वरहितस्य 'ज्ञान' सम्यग् ज्ञानं, 'ज्ञानेन विना' ज्ञानरहिता न भवन्ति चरणगु॥२६६॥का
णाः, तत्र चरणं-व्रतादि, गुणाः-पिण्डविशुद्धयादयः, 'अगुणिनः' अनन्सरोक्तगुणरहितस्य नास्ति 'मोक्षो' निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते 'निर्वाणं' मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्महात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्वयार्थः ॥ ३० ॥ अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगणावाप्तिहेतुत्वमिति तान् दर्शयितुमाह| मूलम्-निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी। उबवूह-थिरीकरणे, वच्छल्ल-पभावणे अदृ३१|| ___व्याख्या-शङ्कनं-शङ्कितं देशसर्वशङ्कारूपं, तदभावो निःशङ्कितं । तथा कांक्षणं-कांक्षितं अन्यान्यदर्शनाभिलाषात्मकं, तदभावो निःकांक्षितं । 'विचिकित्सा' फलं प्रति सन्देहः, यद्वा विदो-विज्ञास्ते च साधव एव तेषां जुगुप्सा-निन्दा, तदभावो 'निर्विचिकित्सं' 'निर्वि
जुगुप्सं' वा, आपत्वाच्च सूत्रे एवं पाठः । अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽपि निन्द्यमस्मदर्शनमिति मोहहीना सा चासो दृष्टिश्च बुद्धिरूषा FII अमूढदृष्टिः, सा च । अयं चतुर्विधोऽप्यान्तर आचार उक्तो बाह्यमाह-उपबहा-दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धन, स्थिरीकर
णं-स्वीकृतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनं, तयोर्द्वन्द्वे उपब हास्थिरीकरणे । वात्सल्यं-धार्मिकजनस्योचितप्रतिपत्तिकरणं, प्रभावना-स्वतीर्थोन्नतिचेष्टासु प्रवर्तनं, अनयोर्द्वन्द्वे वात्सल्यप्रभावने । "अठत्ति" अष्टामी दर्शनाचारा भवन्तीति शेषः इति सूत्रार्थः ॥ ३१ ॥ इत्थं ज्ञानदर्शनरूपं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमाह
weee OVEVO AVEVAAVEEVOEGY
RECEVEZETEAAAVAAGAVE