SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ उतराध्ययनसूत्रम् ॥२६५॥ CEVEVEY मित्येकादशनार्थः ॥ २७ ॥ कैः पुनर्लिंगैः सम्यक्त्वमस्तीति श्रद्धेयमित्याह मूलम् — परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि । वावरणकुदंसणवज्जणा य सम्मत्तसद्दहणा ॥२८॥ व्या० – परमा:- तात्त्विकास्ते च ते अर्थाश्व-जीवादयः परमार्थास्तेषु संस्तवस्तत्स्वरूपस्य पुनः पुनश्चिन्तनाकृतः परिचयः परमार्थसंस्तवः, 'वा' शब्दः समुच्चये, सुष्टु दृष्टा:- उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था आचार्यादयस्तत्सेवनं, चकारो ऽनुक्तसंग्रहे, ततो यथाशक्ति तद्वैयावृत्त्यादिकरणं च, अपिः समुच्चये, “ वावण्णकुदंसणत्ति " दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापनदर्शना निन्हवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापन्नकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्स्त्रीत्वं, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽनेनेति सम्यक्त्वश्रद्धानमिदं, एभिर्लिंगैः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ॥ २८ ॥ इत्थं सम्यक्त्वलिंगान्यभिधाय तस्यैव महात्म्यमुपदर्शयन्नाह - मूलम् — नत्थि चरितं सम्मत्त - विहूणं दंसणे उ भइव्वं । सम्मत्तचरित्ताइ, जुगवं पुव्वं व सम्मत्तं २६ नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि प्रभुक्स्स निव्वाणं ॥ ३०॥ व्याख्या–नास्ति उपलक्षणत्वाभासीन्न भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्राप्तिर्न तावद्भावचारित्रमिति, | 'दर्शने तु' सम्यक्त्वे पुनः सति 'भक्तव्यं' भवति वा न वा, प्रक्रमाच्चारित्रं । किमित्येवमत आह-सम्यक्त्वचरित्रे युगपत्समुत्पद्येते इति । अध्य०२८ ॥२६५॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy