SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२६४॥ Ceeeeeeeeeeeeeeeeeeee चादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, "सव्वाहिति" सर्वैर्नयविधिभिनँगमादिनयमेदैः, 'च' समुच्चये, स विस्तार- अध्य०२८ रुचितिव्यः ॥ २४ ॥ क्रियारुचिमाह ॥२६४॥ मूलम्-दसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु। जो किरिआ भावरूई, सो खलु किरियाई नाम २५|| व्याख्या-दर्शनज्ञानचरित्रे तपोविनये सत्याश्च ताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, अयं भावः-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ॥ २५ ॥ संक्षेपरुचिमाहमूलम्-अणभिग्गहिअकुदिट्ठि, संखेवरुइत्ति होइ नायव्वो । अविसारओ पवयणे, अणभिग्गहिओ असेसेसु व्याख्या-अनभिगृहीता-अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा संक्षेपरुचिरिति भवति ज्ञातव्यः, 'अविशारदो' ऽकुशलः 'प्रवचने' जिनमते, 'अनभिगृहीतः । अनभिज्ञः 'शेषेषु' कपिलादिप्रणीतप्रवचनेषु, अयं भावो य उक्तविशेषणविशिष्टः संक्षेपेणैव चिलातिपुत्र इव पदत्रयेण तत्त्वं श्रद्दधाति स संक्षेपरुचिः ॥ २६ ॥ धर्मरूचिमाहमूलम्-जो अस्थिकायधम्म, सुअधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहिअं, सो धम्मरुइत्ति नायव्यो ! व्याख्या-योऽस्तिकायानां-धर्मादीनां धर्मो-गत्युपष्टम्भादिरस्तिकायधर्मस्तं, 'श्रुतधर्मम्' आगमरूपं, 'चरित्रधर्म च' सामायिकादिह भेदं श्रद्दधाति जिनाभिहितं । धर्मेषु-पर्यायेषु धर्मे वा-श्रुतधर्मादौ रुचिरस्येति कृत्वा, स धर्मरुचिरिति ज्ञातव्यः । शिष्यव्युत्पादनार्थ चैवमुपाKII विभेदतः सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु क्वचित्केषाश्चिदन्तर्भावे न ह्येतावन्तो भेदाः सम्भवन्तीति भावनीय AVEVEGVESEVEGVEGVEGA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy