________________
अध्य०२८ ॥२६२॥
उत्तराध्य- गम्यते, जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह-"सहसंमुइअत्ति" सोपस्कारत्वात् सूत्रत्वाच्च सहात्मना या सङ्गता मतिः सा सयनसूत्रम् हसंमतिस्तया, कोर्थः ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ॥२६२॥ ततो बन्धादयश्च येनाधिगता इतियोगः । यश्च "रोएइ उत्ति" रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जी
वादीनिति गम्यते, “निसग्गोति" स निसर्गरुचि यः ॥ १७ ॥ अमुमेवार्थ स्पष्टतरमाहRe! मूलम्-जो जिणदिठे भावे, चउविहे सद्दहइ सयमेव । एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायब्वो १८
___व्याख्या-यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्दधातीत्याह-एवमेवैतद्यथा जिनैदृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः ॥१८॥ उपदेशरुचिमाहमूलम-एए चेव उ भावे, उबइठे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायव्यो १६
व्याख्या-एताश्चैवानन्तरोक्तान् भावान् जीवादीन् 'तुः' पूरणे उपदिष्टान् यः 'परेण' अन्येन श्रद्दधाति, कीदृशेन परेणेत्याह-'छअस्थेन' अनुत्पन्नकेवलज्ञानेन 'जिनेन वा' सञ्जातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥ १६ ।। अथ आज्ञारुचिमाहमूलम्-रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । अणाए रोतो, सो खलु आणाई नाम २०
व्याख्या-रागो द्वेपो 'मोहः' शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भावाद्देशत इति गम्यते, एतदपगमाच्च "आणाएति" आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो
NeeeeeeeeeeeeeeeeeeeeYPEveey
VEGEEveeeeeeeeeeeeeeeeeeeeex