SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२६॥ PARBARICRADIATRISRANADA मूलम्-तहिआणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, संमत्तं ति विश्राहि ॥१५॥ अध्य०२८ व्या. तथ्यानां तु 'भावानां' जीवादीनां 'सद्भावे' सद्भावविषयमवितथसत्ताभिधायकमित्यर्थः, 'उपदेशनं' गुर्वादीनामुपदेशं ॥२६॥ 'भावेन' अन्तःकरणेन 'श्रद्दधतः । तथेति प्रतिपद्यमानस्य जन्तोः 'सम्यक्त्वं' सम्यक्त्वमोहनीयक्षयादिसमुत्थात्मपरिणामरूपं 'तदिति' जीवादिभावश्रद्धानं 'व्याख्यातं' विशेषेणाख्यातं, जिनैरिति गम्यत इति सूत्रार्थः ॥ १५ ॥ एवं सम्यक्त्वस्वरूपमुक्त्वा तद्भेदानाह"निस्सग्गु वएसरुई, आणारुइ सुत-'बीअरुइमेव । 'अभिगम वित्थाररुइ, 'किरिया संखेव धम्मरुई १६ ... व्या 'निस्सग्गुवएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिस्तत्त्वाभिलाषोऽस्येति निसर्गरुचिः १ । उपदेशो-गुर्वादिकथनं तेन रुचिर्यस्येत्युपदेशरुचिः २ । आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकं योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः ४ । बीजमिव बीजं-यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः ५ । अनयोः समाहारः एवेति समुच्चये । अभिगमो-विज्ञान, विस्तरो-व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिविस्ताररुचिश्चेति ६-७ तथा क्रिया-अनुष्ठानं, संक्षेपः-संग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगाक्रियारुचिः संक्षेपरुचिर्धर्मरुचिश्च-८-६-१० विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसंक्षेपार्थः ॥ १६ ॥ व्यासार्थ तु स्वत एवाह सूत्रकृतमूलम्-भूअत्थेणाहिंगया, जीवाऽजीवा य पुण्ण-पावं च । सहसंमुइआ आसवसंवरे अरोएइ उ निप्सग्गो व्या.- भूअत्थेणत्ति" भावप्रधानत्वानिर्देशस्य भूतार्थत्वेन--सद्भूता एते अर्था इत्येवंरूपेण निर्णयेनाधिगताः-परिच्छिन्ना येनेति ।। Neeeeeeeeeeeeeeeee-YEG-NEeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy