________________
उतराध्य
यनसूत्रम्
॥२६०॥
स्तिक्तादिः, गन्धः—सुरभिप्रभृतिः, स्पर्शः - शीतादिरेषां द्वन्द्वः । ' पुद्गलानां' स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ॥ १२ ॥ द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाह
मूलम् — एगत्तं च पुहत्तं च, संखा संठारणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ॥१३॥
व्या० – 'एकत्वं' भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, 'पृथक्त्वं च ' श्रयमस्मात्पृथगिति प्रत्ययनिमित्तं, 'संख्या' यत एको द्वौ त्रय इत्यादिका प्रतीतिर्जायते, 'संस्थानं' परिमण्डलोऽयमित्यादि बुद्धिनिबन्धनं, 'एवः' पूत 'चः' समुच्चये संयोगा अयमंगुल्योः संयोग इत्यादिव्यपदेशहेतवः, विभागाश्वायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्त्यपेक्षया बहुवचनं, उपलक्षणत्वानवपुराणत्वादीनि च पर्यवाणां 'तुः ' पूर्वौ, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वाल्लक्षणं नोक्तमिति सूत्रनवकार्थः ॥ १३ ॥ इत्थं स्वरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमाह
मूलम् - जीवाऽजीवा य बंधो अ, पुरणं पावासवो तहा । संवरो निज्जरा मोक्खो, संतेए तहिया नव १४
-
व्या० - जीवाः प्रतीताः, 'अजीवा' धर्मास्तिकायादयः, 'बन्धश्च' जीवकर्मणोः संश्लेषः, 'पुण्यं' शुभप्रकृतिरूपं सातादि, 'पापम्' अशुभप्रकुतिरूपं मिथ्यात्वादि, 'याश्रवः' कर्मोपादानहेतुहिंसादिः, पुण्यादीनां द्वन्द्वः । तथेति समुच्चये, 'संघरो' महाव्रतादिभिराश्रवनिरो'धः, 'निर्जरा' विपाकात्तपसो वा कर्मपरिशाटः, 'मोक्षः ' सकलकर्मक्षयलक्षणः, सन्त्येते तथ्या नत्र भावा इति शेषः ॥ १४ ॥ यद्यमी तथ्यास्ततः किमित्याह -
अध्य०२८ ॥२६०॥