SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ अध्य०२७ ॥२५॥ .. व्या०-गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, 'तुः पूत्तौं, 'धर्मो' धर्मास्तिकायः। अधर्मोऽधर्मास्तिकायः स्थानंउत्तराध्य HAस्थितिस्तल्लक्षणः । अयं भावः-स्वत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां यनसूत्रम् स्थितिक्रियोपकारी अधर्मास्किाय इति । 'भाजनम् ' आधारः, सर्वव्याणां 'नभः' आकाशं, अवगाहो-अवकाशस्तल्लक्षणं । जीवादीनाम॥२५॥ वगाढुं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥ ४ ॥ मूलम्-वत्तणालक्खणो कालो, जीवो उवोगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य १० ___व्या०-वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पो - दादिनयत्यहेतुः । 'जीवो' जन्तुरुपयोगो-मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव 'ज्ञानेन' विशेषग्राहिणा 'दर्शनेन च' सामान्यविषयेण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥ १० ॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनूय लक्षणान्तरमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा । वीरिअं उवओगो अ, एअं जीवस्स लक्खणं ॥११॥ ___ व्याख्या-“वीरिअंति" 'वीर्य' सामर्थ्य, 'उपयोगो' अवहितत्त्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥ ११ ॥ अथ पुद्गललक्षणमाहमूलम्-सद्द धयार उज्जोओ, पहा छायाऽऽतवेइ वा । वरण-रस-गंध-फासा, पुग्गलाणं तु लक्खणं १२ व्या०-शब्दो-ध्वनिः, अन्धकारो-ध्वान्तं, उभयत्र सुपो लुप् । 'उद्योतो' रत्नादिप्रकाशः, 'प्रभा' चन्द्रादिरुचिः, छाया-शैत्यगुN णा , आतपस्तपनबिम्बजोष्णप्रकाशरूपः, 'इति' शब्द आद्यर्थस्ततश्च सम्बन्धमेदादीनां परिग्रहः, वा समुच्चये । तथा वर्ण:-कृष्णादिः, रस EVEEVEE VS VERLEVeveeve VEGVEGTEREY PEVE TE LEE EEEVELEVATELEV
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy