________________
उत्तराध्य- किं लक्षणमित्याह
मध्य०२८ यनसूत्रम् का मूलम्-गुणाणमासओ दव्वं, एगदव्वस्सिमा गुणा । लक्खणं पज्जावाणं तु, उभो अस्सिा भवे ॥६॥ ||2|| ॥२८॥ २५८
व्याख्या-गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तद्व्यतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधा- का का रभृते आश्रिताः-स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तद्व्यतिरिक्तान् रुपादींस्तन्मतमवमतं । लक्षणं पर्यवाणां तु
पुनः उभयोयोः प्रक्रमाद्र्व्यगुणयोराश्रिताः " भवेत्ति " भवेयुः ॥ ६॥ गुणानामाश्रयो द्रव्यमित्युक्त तत्र द्रव्यं कतिभेदमित्याह- l मूलम्-'धम्मो 'अहम्मो 'आगासं, 'कालो पोग्गल-जंतवो । एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहि ।
व्या-'धर्मो' धर्मास्तिकायः, 'अधर्मो ऽधर्मास्तिकायः, 'आकाशम्' आकाशास्तिकायः, 'कालो' अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति पुद्गलास्तिकायो जीवास्तिकायश्च, एतानि द्रव्याणि ज्ञेयानीत्यध्याहारः । अत्र प्रसङ्गाल्लोकस्वरुपमप्याह-एषो' अनन्तरोक्तद्रव्य
समूहो लोक इति प्रज्ञप्तो जिनैर्वरदर्शिभिः ॥ ७ ॥ धर्मादीन्येव द्रव्याणि भेदत आह2 मूलम्-धम्मो अहम्मो आगसं, दव्वं इक्किक्कमाहि। अणंताणि अदव्याणि, कालो पुग्गलजंतवो ॥८॥
व्या०–धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनद्रव्याणि कालः पुद्गलजन्तवश्च । कालस्य चान- | न्त्यमतीतानागतापेक्षयेति ॥ ८॥ द्रव्याणां लक्षणान्याहमूलम् गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वव्वाणं, नहं ओगाहलक्खणं है।
NAVEVENTEEVEEVAGE FEVEY