SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२५७|| अध्य०२८ ॥२५७॥ | जिनवरदर्शिभिः । अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मवपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ॥२॥ अथास्यैवानुवादद्वारेण फलं दर्शयितुमाहमूलम्-नाणं च दंसण चेव, चरित्तं च तवो तहा । एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं ॥३॥ व्याख्या-"एअंति" एतमनन्तरोक्त मार्ग 'अनुप्राप्ता' आश्रिता जीवा गच्छन्ति 'सुगति' मुक्तिरूपामिति सूत्रार्थः॥३॥ ज्ञानादीन्येव क्रमेणाभिधातुमाहमूलम्-तत्थ पंचविहं नाणं, सुन आभिणिबोहि। ओहिणाणं च तइ, मणनाणं च केवलं ॥४॥ व्या०-'तत्र' तेषु ज्ञानादिषु मध्ये 'पञ्चविधं' पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः ? इत्याह-'श्रुतं' श्रुतज्ञानं, 'आभिनिबोधिकं' मतिज्ञानं, अवधिज्ञानं तृतीयं, "मणनाणंति" मनःपर्यायज्ञानं, 'च:' समुच्चये भिन्नक्रमस्ततः केवलं चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रतमुक्तं तदिहादौ कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि स्वरूपज्ञानं प्रायः श्रताधीनमिति तस्य प्राधान्यख्यापनार्थ पूर्व तदुपादानमिति सूत्रार्थः ॥ ४ ॥ अथ ज्ञानस्य विषयमाहमूलम्-एन पंचविहं नाणं, दव्वाण य गुणाण य। पज्जावाणं च सव्वेसि, नाणं नाणीहिं देसि ॥५॥ ___ व्या०-एतत्पञ्चविधं ज्ञानं द्रव्याणां च जीवादीनां, गुणानां च सहभाविनां रूपादिनां, पर्यवाणां च क्रमभाविनां नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं. शेषज्ञानानां प्रतिनियतपर्यायग्राहित्वात् । "नाणंति" ज्ञायतेऽनेनेति 'ज्ञानं' अवबोधकं ज्ञानिभिरर्थात्केवलिभिः 'देशितं' कथितम् ॥ ५॥ अनेन द्रव्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः eeeeeeeeeeeeeeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy