SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२५६॥ अध्य०२८ ॥२५६॥ ॥अथ प्रस्ताविंशमध्ययनम् ॥ ॥अहं ॥ उक्तं सप्तविंशमध्ययनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने शठतात्यागेनाशठता | स्वीकार्येत्युक्त', अशठेन च सुप्रापैव मोक्षमार्गगतिरिति तदभिधायकमिदं प्रस्तूयते, इति सम्बन्धस्यास्येदमादि सत्रम् ॥ मूलम् -मोक्खमग्गगई तच्चं, सुणेह जिणभासिअं। चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥१॥ व्याख्या-मोक्षः-सकलकर्मक्षयः तस्य मार्गों-ज्ञानादिरूपो मोक्षमार्गस्तेन गतिः-सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यं, 'तथ्यां' सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः ? उच्यते-न्यवहारतः कारणकारणस्यापि कारणत्वभिधानात् । तथा ज्ञानदर्शने-विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ॥१॥ यदुक्तं मोक्षमार्गगतिं शृणुतेति, तत्र मोक्षमार्ग तावदाह मूलम्–णाणं च देसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पएणत्तो, जिणेहिं वरदसिहि ॥२॥ II व्या०-'ज्ञान' ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक ज्ञानं मत्यादिभेदं, 'दर्शन' दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्थमहंदुक्त जीवादितत्त्वरुचिरूपं क्षायिकादिभेदं, 'चारित्रं' चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिरुपं, 'तपो' बाह्याभ्य|| न्तरभेदभिन्न जिनोक्तमेव । सर्वत्र चकारस्तथेति चः समुच्चये, समुच्चयश्च ह समुदितानामेषां मुक्तिमार्गत्वख्यापकः । एष मार्ग इति प्रनतो SPAAAAA eveeeeeeeeeeeeeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy