________________
उत्तराध्ययनसूत्रम् ॥२५॥
अध्य०२७ २५॥
EEEEEVE Vereeeveereveevee
॥अथ सप्तविंशमध्ययनम् ॥ ॥अहं ।। उक्तं षड्विंशमध्ययनं, सम्प्रति खलुकीयाख्यं सप्तविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने सामाचारी प्रोक्ता, al सा चाशठतयैव पालयितुं शक्या, सापि तद्विपक्षभूतशठतात्यागेनैव स्यादितीह दृष्टान्त द्वारा शठतास्वरूपं निरूप्यते । इतिसम्बन्धस्यास्येद
मादि सूत्रम् ॥ मूलम्-थेरे गणहरे गग्गे, मुणी आसि विसारए । आइएणे गणिभावंमि, समाहिं पडिसंधए ॥१॥
व्याख्या-धर्मे अस्थिरान् स्थिरीकरोतीति स्थविरः, गणं-गुणसमूहं धारयतीति गणधरो 'गों' गर्गनामा, मुणति-प्रतिजानीते सर्व- || CIL सावधविरतिमिति मुनिः, आसीदभूत , 'विशारदः' सर्वशास्त्रेषु कुशलः, 'आकीर्ण' आचार्यगुणैातः, 'गणिभावे' प्राचार्यत्वे स्थित इ.
ति शेषः । स 'समाधि' चित्तसमाधानरूप 'प्रतिसन्धत्ते' कुशिन्यैखोटितमपि संघटयत्यात्मन इति गम्यमिति सूत्रार्थः ॥ १॥ स च स| माधि सन्दधत् यत् परिभावयति तदाहमूलम्-वहणे वहमाणस्स, कंतारं अइवत्तइ । जोए वहमाणस्स, संसारं अइवत्तइ ॥२॥
खलुके जो उ जोएइ, विहम्माणो किलिस्सइ । असमाहिं च वेदेति, तोत्तो से य भज्जइ ॥३॥ एगं डसइ पुच्छंमि, एगं विंधइऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपट्टिओ ॥४॥ एगो पडइ पासेणं, निवेसइ निवज्जइ । उक्कुदइ उप्फिडइ, सढे बालगवी वए ॥५॥