________________
उत्तराध्य
यनसूत्रम् ॥२४७॥
त्कृष्टं अर्द्धयोजनादर्द्धयोजनमाश्रित्य परतो हि मार्गातीतमशनादि स्यात्, विहरत्यस्मिन्प्रदेशे इति विहारः - क्षेत्रं, तं विहरेन्मुनिः ॥ ३६ ॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपूर्वं भोजनादि कृत्वा यत्कुर्यात्तदाह
मूलम् - चउत्थीए पोरिसीए, निक्खवित्तारण भायणं । सज्झायं च तत्र कुज्जा, सव्वभावविभावर्णं ॥३७॥ पोरिसीएच उभाए, वंदित्तारण तो गुरु । पडिक्कमित्ता कालस्स, सिज्जं तु पडिलेहए ॥ ३८ ॥ पासवरणुच्चारभूमिं च, पडिले हिज्ज जयं जई । काउस्सग्गं तत्र कुज्जा, सव्वदुक्खविमोक्खणं ३६ व्याख्या – चतुर्थ्यां पौरुभ्यां ‘निक्षिप्य ' प्रत्युपेक्षणापूर्वं बध्वा 'भाजनं ' पात्रं, उपलक्षणत्वादुपधिं च प्रतिलिख्य, स्वाध्यायं ततः कुर्यात्, सर्वभावा - जीवादयस्तेषां विभावनं - प्रकाशकम् ।। ३७ ।। पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागे शेषे इति शेषः, “सिज्जंति” 'शय्यां ' वसतिम् ||३८|| “पासवणुच्चारभूमिं चत्ति" प्रश्रवणभूमिमुच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिकां च शब्दात्काल भूमिं च स्थरिडलत्रयरूपां प्रतिलेखयेत्, 'यतम् ' आरम्भादुपरतं यथा स्यात्तथा यतिरिति सार्द्धसप्तदशत्रूत्रार्थः । इत्थं विशेषाद्दिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशमूत्रैराह । काउस्सग्गमित्यादि - " तयोति " ततः प्रश्रवणादिभूमिप्रति लेखनानन्तरम् ॥३६॥ कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाह— मूलम् - देसि च अईआर, चिंतिज्ज अणुपुव्वसो । नाणे अ दंसणे चेव, चरितंमि तहेव य ॥४०॥
पारि काउस्सग्गो, वंदित्ताण तो गुरु ं । देसि तु आईआरं, आलोइज्ज जहक्कमं ॥४१॥ पक्किमित्त निस्सल्लो, वंदित्तारण तो गुरु । काउस्सग्गं तो कुज्जा, सव्वदुक्ख विमोक्खणं ॥४२॥
अध्य०२६ ॥२४७॥