________________
उतराध्य
धनसूत्रम्
॥२४२॥
पटलकप्रक्रमेपि यद्वस्त्रमिति सामान्यशब्दाभिधानं तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थं 'एवशब्दो' भिन्नक्रम स्ततः प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र संक्रमयति । "तो इति” ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात्, किमित्याह - यत् शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्यात्, 'प्रमृज्यात्' प्रत्युपेक्ष्य प्रस्फोठ्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याह- ' श्रनर्त्तितं ' वस्त्र ं वपुर्वा यथा नर्त्तितं न भवति । 'अवलितं' यथाऽऽत्मनो वस्त्रस्य च वलितं मोटनं न स्यात् । 'अननुबन्धि' अनुबन्धेन नैरन्तर्यरूपेण युक्तमनुबन्धि, न तथा अननुबन्धि, कोऽर्थो ? लक्ष्यमाणविभागं यथा भवति तथा । " अमोसलित्ति" सूत्रत्वादमर्शवत् तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा । किमित्याह–“ छप्पुरिमत्ति" पट् पूर्वाः, पूर्व क्रियमाणतया तिर्यक्कृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते षट् पूर्वाः । नव खोटकाः प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पाणौ हस्ते प्राणिनां कुन्ध्यादीनां विशोधनं प्राणिविशोधनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसंख्यं कर्त्तव्यम् ॥ २५ ॥ प्रतिलेखनादोषत्यागार्थमाह
मूलम् — आरभडा सम्मद्दा, वज्जेव्वा य मोसली तइा । पप्फोडणा चउत्थी, विक्खित्ता वे छट्ठा
पसिढिल- पलंब-लोला, एगामोसा गरूवधुणा । कुणइ पमाणि पमायं, संकिए गणगोवगं कुज्जा व्याख्या - " श्रारभडा " विपरितकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्त:- "वितहकरणमारभडा, तुरिअं वा श्रन्नमन्नगहति" संमर्द्दनं संमर्दा, रूढित्वात् स्त्रीलिङ्गता, संमर्दा नाम वस्त्रान्तकोणसंवलनं', उपधेर्वा उपरि उपवेशनं वर्जयितव्येति सर्वत्र योज्यं । १ वस्त्रान्तको यानां परस्पर मेलनमिति दीपिकायाम् ॥
अध्य०२६ ॥२४२॥