________________
उतराध्य
यमस्त्रम् ||२३८ ||
व्याख्या - पुर्वस्मिंश्चतुर्भागे नभस इति शेषः, आदिले 'समुत्थिते' समुङ्गते प्राप्त इत्यर्थः । अत्र हि किञ्चिदूरोऽपि चतुर्भागचतुर्भाग उक्तस्ततोऽयमर्थः । बुद्धया नभचतुर्द्धा विभज्यते, तत्र पुर्वदिक्सम्बद्धकिञ्चिदूननभचतुर्भागे यदाऽऽदित्यः समेति तदा, पादोनपौरुप्यामित्यर्थः । भाण्डमेव ' भाण्डकं' पतग्रहाद्युपकरणं प्रतिलिख्य वन्दित्वा च ततः प्रतिलेखनानन्तरं गुरुं श्राचार्यादिकम् ॥ ८ ॥ "पुच्छेज्जत्ति " पृच्छेत् 'प्राञ्जलिपुटो' भालस्थलयोजितकरसम्पुटः किं कर्त्तव्यं मया ? 'इह' अस्मिन् समय इति गम्यते एतदेव व्यनक्ति, " इच्छंति " इच्छामि ‘“निओइउंति” अन्तर्भू तणिगर्थत्वाद् ' नियोजयितु'' प्रवर्त्तयितु' युष्माभिरात्मानमिति शेषः, हे भदन्त ! ' वैयावृत्ये ' ग्लानादिसम्बन्धिनि 'स्वाध्याये वा' वाचनादौ ॥ ६ ॥ एवं पृष्ट्वा यत्कार्यं तदाह – वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद्वैयावृत्त्यं, "अगिलायश्रोति” 'अग्लान्यैव' शरीरश्रममविचिन्त्यैव । स्वाध्याये वा नियुक्त ेन सर्वदुःखविमोक्षणे स्वाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रश्रयार्थः ।। १० ।। एवं सकलौघसमाचारी मूलत्वात्प्रतिलेखनायास्तत्कालं सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकं दिनकृत्यमाहमूलम् — दिवसस्स चउरो भाए, कुजा भिक्खू विक्खणो । तो उत्तरगुणे कुज्जा, दिभागेच
पढमं पोरिसि सभायं बिइ भाणं प्रियइ । तइआए गोचरकालं, पुणो चउत्थिए सज्झायं आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोपसु मासेसु, तिपया हवइ पोरिसी ॥१३॥ अंगुलं सत्तर तेां, पक्खेां तु दुअंगुलं । वड्डए हायए आवि, मासेां चउरंगुलं ॥ १४ ॥
"
व्याख्या – “तभत्ति” ततश्रुतुर्भागकरणानन्तरं उत्तरगुणान् स्वाध्यायादीन् कुर्यात् ॥ ११ ॥ कथमित्याह -- प्रथम पौरुष 'स्वा
अध्य० २६
॥२३८ ॥