________________
उत्तराध्य यनमत्रम् ॥२३३॥
अध्य०२५ ॥२३॥
GALLEVENGEVEEVERERA
नामभाव एवेति । ब्राह्मणावसरे च यच्छेषाभिधानं तद्व्याप्तिदर्शनार्थम् ॥३२॥ किमिदं स्वबुद्धयौवोच्यत इत्याह-ताननन्तरोक्तान् अहिंसादीन् अर्थान् 'प्रादुरकाषीत' प्रकटितवान् 'बुद्धः सर्वज्ञो यैर्भवति 'स्नातकः' केवली, ततश्च प्रत्यासन्नमुक्तितया सर्वकर्मविनिमुक्तमिव सर्वकर्मविनिमुक्ततं स्नातकं वयं ब्रमो ब्राह्मणम् ॥ ३३॥ एवं गुणैरहिंसाद्यैः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, 'तुः' पूरणे । इत्येकोनविंशति सूत्रार्थः ॥ ३४ ॥ इत्युदीर्यावस्थितो मुनिः, ततश्चमूलम्-एवं तु संसये छिन्ने, विजयघोसे अ माहणे । समुदाय तो तं तु, जयघोसं महामुणिं ॥३५॥
तुढे अ विजयघोसे, इणमुदाहु कयञ्जली । माहणत्तं जहाभूअं, सुटु मे उवदंसि ॥३६॥ तुब्भे जइआ जण्णा, तुब्भे वेअविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ३७
तुब्भे समत्था उद्धत्तु, परं अप्पाण मेध य । तमणुग्गहं करेहम, भिक्खेणं भिक्खउत्तमा ॥३८॥ व्या०-एवमुक्तनीत्या, तुर्वाक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्चः पूरणे ब्राह्मणः, “समुदायत्ति" 'समादाय' सम्यक् गृहीत्वा ममासौ सोदरो भवति इत्युपलक्ष्येत्यर्थः, 'ततः' संशयच्छेदानन्तरं तं, 'तु:' पूरणे, जयघोषमहामुनिम् ॥३५॥ किं चकारेत्याह-"इणमुदाहुत्ति" इदमुदाहृतवानुवाचेत्यर्थः, "जहाभूअंति" 'यथाभूतं यथास्थितम् ॥ ३६॥"जइअत्ति" यष्टारः यूयं वेदविदो 'हे विदः' हे यथास्थिततत्वज्ञाः ।। ३७ ॥'तमणुग्गहंति' तत्तस्मात् अनुग्रहं कुरुतास्माकं "भिक्खेणंति" 'भैक्ष्येण' मिक्षाग्रहणेन हे भिवृक्षम ! इति सूत्रचतुष्कार्थः ॥ ३८ ॥ एवं द्विजेनोक्तं मुनिराह
TELEG LAVEVEGEEVES VEGVEGVERSE