________________
इचराध्यपनसत्रम् ॥२३२॥
VESEVGEGEGEE
समयाए समणो होइ, बंभचरेण बंभो । नाणेण य मुणी होइ, तवे होइ तवसो ॥३१॥॥ · अध्य०२५ कम्मुणा बंभणो होइ, कम्मुसा होइ खत्तिो । कम्मुणा वइसो होइ, सुद्दो हवइ कम्मुणा ॥३२॥ ॥२३२॥ एए पाउकरे बुद्ध, जेहिं, होइ सिणायो । सव्वसंगविणिमुक्कं, तं वय वूम माहणं ॥३३॥
एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धतु, परं अप्पाणमेव य ॥३४॥ व्या०-पशूनां बन्धो-विनाशाय नियमनं यहेतुभिस्ते पशुबन्धा 'सर्ववेदा' ऋग्वेदादयः, 'जळं चत्ति' इष्टं यजनं, चः समुच्चये, 'पापकर्मणा' पापहेतुपशुवधाद्यनुष्ठानेन न 'तं' यष्टारं त्रायन्ते 'दुश्शीलं' दुराचारं भवादिति गम्यते, यतः कर्माणि 'बलवन्ति' दुर्गतिनयनं प्रति समर्थानि 'इह' वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः कर्मबलवर्द्धकत्वादिति भावः। ततो नानयोर्योगात् का ब्राह्मणः स्यात्किन्तु पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ॥ २६ ॥ अन्यच्च 'न' नैव, अपिः पूत्तौं, मुण्डितेन 'श्रमणो' निर्ग्रन्थो भवतीति शेषः । न "ॐकारेणत्ति" ॐ भूर्भुवःस्वरि'त्यादिना ब्राह्मणः, न मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीरं कुशचीरं वन्कलोपलक्षणमिदं तेन न तापसः ॥ ३० ॥ तहि कथमेते भवन्तीत्याह-तथा ॥ ३१ ॥ 'कर्मणा' क्रियया ब्राह्मणो भवति, यदुक्तं-"क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिषणा । ज्ञानं विज्ञानमास्तिक्य-मेतबाह्मणलक्षणम् ॥ १॥" तथा कर्मणा क्षतताणलवणेन भवति क्षत्रियः, वैश्यः कर्मणा कृषिपाशुपाल्यादिना भवति, शूद्रोभवति कर्मणा शोचनहेतुप्रैषादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशा
१" भूमुवः स्वस्तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥
SVECVAGGEVeerectvegveAee