SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ उचराध्य यनसूत्रम् ॥२२६॥ RE व्या० – अग्निहोत्रं - अग्निकारिका, सा चेह “कर्मेन्धनं समाश्रित्य दृढा सद्भावनाहुतिः ॥ धर्मध्यानाग्निना कार्या, दीक्षितेनानिकारिका ॥ १ ॥" इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः || वेदानां हि दघ्न इव नवनीतमारण्यकं प्रधानं, तत्र च “ सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् ॥ श्रद्धा धृतिरहिंसा च संवरश्च तथापरः ।। १७ ।। " इति दशप्रकार एव धर्मः प्रोचे । तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञो भात्रयज्ञ: संयमरूपस्तदर्थी 'वेदसां यागानां 'मुखम् ' उपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्त्तन्ते । नक्षत्राणां 'मुखं' प्रधानं चन्द्रः । धर्माणां 'काश्यपो' युगादिदेवो 'मुखम् ' उपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ॥१६॥ काश्यपस्यैव महात्म्यप्रकाशनेन धर्ममुखत्वं समर्थयितुमाह-यथा चन्द्रं ग्रहादिकाः “ पंजलिउडत्ति" कृतप्राञ्जलयः 'वन्दमानाः ' स्तुवन्तो 'नमस्यन्तो' नमस्कुर्वन्तः 'उत्तमं ' प्रधानं यथा स्यात् तथा 'मनोहारिणो' अतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं देवेन्द्रमुख्या इत्युपस्कारः ॥ १७ ॥ अनेन प्रश्नचतुष्कोचरमुक्त, पञ्चमप्रश्नमधिकृत्याह – “ अजाणगत्ति " अज्ञाः के ते १ यज्ञषादिनो ये तव पात्रत्वेनाभिमताः, कासामज्ञा इत्याह – “ विज्जामाहणसंपयत्ति " विद्याब्राह्मणसम्पदां तत्र विद्या - आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदाः । तात्विकत्राह्मणानां हि निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदारण्यकादिप्रोक्त' दशविधधर्मं विदन्तोऽपि यज्ञमेव कुर्युरिति १ तथा 'गूढा' बहिः संवरवन्तः केन हेतुना १ 'स्वाध्यायतपसा वेदाध्ययनोपवासादिना । अत एव " भासछन्ना इवग्गियोत्ति " भस्मच्छन्ना अग्नय इव । यथा हि ते बहिरुपशमभाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तः कषायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतत्राह्मणानां स्वपरोद्धरणक्षमत्वं दुरापास्तमेवेत्यर्थः ॥ १८ ॥ कस्तर्हि भवन्मते ब्राह्मणो यम्पात्रमित्याह - अध्य०२५ ॥२२६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy