SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अध्य०२५ ॥२२॥ उत्तराभ्ययनसत्रम् ॥ अथ पञ्चविंशमध्ययनम् ॥ ॥२२॥ ॥ अहं ॥ उक्तं चतुर्विशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थ जयघोषकथालेशो लिख्यते । तथा हि वाराणस्यामभृतां द्वौ, द्विजौ युग्मजसोदरौ । काश्यपौ जयघोषाख्य-विजयघोषसंज्ञकौ ॥१॥ जयघोषोऽन्यदा स्नात. MAII गतो गङ्गां व्यलोकत ॥ सर्पमेकं मुखोपात्त-रटन्मण्डूकभक्षकम् ॥ २ ॥ गृहीत्वा स भुजङ्गोऽपि, क्षणात्कुररपक्षिणा ॥ उत्क्षिप्याधिषिति । चितः, पारेमे भक्षितु द्रुतम् ॥ ३ ॥ तेन सन्दंशदेशीय-वोटिप्रोटितविग्रहम् ॥ भक्ष्यमाणोऽप्यहि कं, रटन्तं तं जघास सः ॥४॥ च प्रेक्ष्य मिथोग्रासं, जयघोषो व्यचिन्तयत् ॥ अहो ! भवस्य काप्येषा, स्थितिरस्थितसुस्थता ॥ ५॥ यो हि यस्मै प्रभवति, 'असते तं व स मीनवत् ॥ न तु गोपायति स्वीयशक्ति कोऽपि नदीनवत् ॥ ६॥ कृतान्तस्तु महाशक्ति-रिति स असतेऽखिलम् ॥ तदसारेच संसारे, का नामास्था मनीषिणाम् १ ॥७॥ किचेह धर्म एवैकः, सर्वोपद्रनाशकः ॥ श्रयामि तत्तमेवाहं, कामितार्थसुरद्रमम् ॥ ॥ इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून ॥ जिनधर्ममवेत्य तद्विरा च, व्रतमादाय ततो भुवि व्यहार्षीत् ॥ ६॥ इति तत्कथालेशः॥ तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते, तच्चेदम् १-स तं प्रसति मौनवत् । इति "ध" पुस्तके ॥ रिति सर्व प्रमत्यहो । इति "घ" पुस्तके।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy