SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२२३॥ कः निरूपयन्नुपदेष्टुमाह — संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः । समारम्भः - परपीडाकरोच्चाटनादिनिमित्तं ध्यानं, अनयोः समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे, चः समुच्चये, 'तथैव' तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुर्विशेषणे, निवर्त्तयेत् यतमानो यतिः । विशेषश्चायं - शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति ॥ २१ ॥ वाग्गुप्तिमाह-सत्या यथास्थिता - र्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभसंघे गाव ऐवैता इत्यादिका, असत्यामृषा स्वाध्यायं विधेहीत्यादिका ॥ २२ ॥ वाचि - संरम्भः-परव्यापादनक्षममंत्रादिपरार्तनासङ्कल्पवचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् समारम्भः - परपीडाकरमंत्रादिपरावर्त्तनं, आरम्भः - परमारणकारणमंत्रादिजपनमिति ॥ २३ ॥ कायगुप्तिमाह – ' स्थाने' उर्ध्वस्थाने, 'निषीदने' उपवेशने, चैव पूर्वौ, तथैव च ' त्वग्वर्त्तने' शयने, 'उल्लंघने' तादृश हेतोर्गत दिरुत्क्रमणे 'प्रलंघने' सातत्येन गमने उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च “जुजणेत्ति” योजने शब्दादिषु व्यापारणे, सर्वत्रापि वर्त्तमान इति शेषः ।। २४ ।। संरम्भोऽभिघाताय दृष्टिमुट्यादिसंस्थानमेव सङ्कल्पसूचकपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः - परितापकरो मुष्ट्याद्यभिघातः, आरम्भः - प्राणित्रधात्मकस्तेषु प्रवर्त्तमानं कार्यं निवर्त्तयेदिति सूत्रषट्कार्थः || २५ || अथ समितिगुप्त्योमिथो विशेषमाह – मूलम् – आओ पञ्च समिईओ, चरणस्स य पवत्तणे । गुत्ती नित्तणे वुत्ता, असुभत्थेसु सव्वसो ॥२६॥ व्याख्या - एताः पञ्च समितयश्चरणं चारित्रं सच्चेष्टेत्यर्थः तस्य प्रवर्तने प्राच्य चशब्दस्य एवार्थस्येह योगात्प्रवर्त्तन एव उक्ता इति योगः, सच्चेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । “गुत्तित्ति" गुप्तयो निवर्त्तनेप्युक्ताः, “असुभत्थेसुत्ति" अशुभमनोयोगादिभ्यः " सव्वसोत्ति" सर्वेभ्यः अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थ ॥ २६ ॥ अध्ययनार्थमुपसंहरन्नेतदाचरणे फलमाह - अध्य०२४ ॥२२३॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy