________________
उत्तराध्यपनसूत्रम् ॥२१६॥
अध्य०२३ ॥२१६॥
BERSEELE FEESEE LEEPER
पञ्चमहव्वयधम्म, पडिवज्जइ भावो । पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ॥८॥ व्याख्या-इहोत्तरार्धेन उपहणाग स्तुतिमाह ॥ ८५ ॥ पुनस्तद्वक्तव्यतामाह-एवमनेनैव क्रमेण संशये छिन्ने इति जातावेक- M वचनम् ॥८६॥ "पुरिमस्सत्ति" पूर्वस्य प्रक्रमाज्जिनस्याभिमते 'पश्चिमे' पश्चिमजिनसम्बन्धिनि 'मार्गे' तीर्थे, तत्र प्रस्तुते 'शुभावहे' कल्याणकारिणि पञ्चमहाव्रतधर्म प्रतिपद्यते इति सम्बन्धः इति सूत्रत्रयार्थः ॥ ८७ ॥ अथाध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गमफलमाहमूलम् केसिगोअमओ णिच्चं, तम्मि आसि समागमे । सुअसीलसमुक्करिसो, महत्थत्थविणिच्छओ ८
तोसिआ परिसा सव्वा, सम्मग्गं समुट्ठिया । संथुआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि E ME al व्याख्या- 'केशिगौतमत' इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत् , तस्मिन् 'समागमे' मीलके 'श्रुतशीलसमुत्क
षों ज्ञानचरणप्रकर्षः, तथा महार्था-मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः-शिक्षाव्रतादयस्तेषां विनिश्चयो-निर्णयो महाविनिश्चयः, आसीत्तच्छिष्यापेक्षयेति गम्यते ॥ ८८ ॥ तथा-तोषिता पर्षत्सर्वा 'सन्मार्ग' मुक्तिपथमनुष्ठातुमिति गम्यते, 'समुपस्थिता' उद्यता । अनेन पर्षदः फलमाह । इत्थं तचरितवर्णनद्वारा तयोः स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रद्वयार्थः ॥ ८६ ॥ इति ब्रवीमीति पूर्ववत् ।।