SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ५१६६॥ अध्य०२३ ॥१६॥ ve evenemeerdere veerevee Veeve CEV Fll यथास्थानं निषण्णेषु, सुरासुरनरेवथ ।। गिरा योजनगामिन्या, पारेभे देशनां प्रभुः ॥ ३२१ ॥ ज्ञात्वा ज्ञानोदयं पाश्र्वप्रभोद्यानपाल कात् ॥ तदर्शनोत्सुकमनाः, प्रमोदभरमेदुरः ॥३२२॥ श्रीअश्वसेनभूपोऽपि, वामादेव्या समन्वितः॥ गत्वा कृतस्तुतिनति-ईम शुश्राव शुद्धधीः ॥ ३२३ ॥ [ युग्मम् ] नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः ।। बुद्धाः पर्यव्रजन्केपि, केपि श्राद्धत्वमाश्रयन् ॥३२४॥ आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः ॥ द्वादशाङ्गीकृतः सद्यः, स्वामिदत्तपदत्रयात् ॥३२५॥ राज्ये न्यस्याश्वसेनोऽपि, हस्तिसेनाभिधं सुतम् । वामादेव्या प्रभावत्या, चान्वितः प्राबजत्तदा ॥ ३२६ ॥ पद्मावतीपाश्र्वयक्षवरोव्याधरणाधिपः ॥ सर्वदा| धिष्ठितपार्श्वः, श्रीपार्थो व्यहरत्ततः ॥ ३२७ ॥ सहस्राः षोडशर्षीणां, समग्रगुणशालिनाम् ॥ अष्टात्रिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ।। ३२८ ॥ श्रावकाणां लक्षमकं, चतुष्षष्टिसहस्रयुक् ॥ श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ॥ ३२६ ॥ दिनैश्चतुरशीत्योनामार्हन्त्ये वर्षसप्ततिम् ।। विभोविहरतः संघोऽभवदेवं चतुर्विधः ॥ ३३० ॥ प्रान्ते चानशनं गत्वा, सम्मेताद्री व्यधाद्विभुः ॥ त्रयस्त्रिंशन्मुनियुतः, कार्योत्सर्गेण संस्थितः ॥ ३३१ ॥ आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः सुयुतो, मासेनाप ततः शिवं कृतभवोपग्राहिकमक्षयः ॥ शक्राद्यैश्च सुरासुरेश्वरवरैः श्रीपाश्र्वविश्वेशितुश्चक्रेऽभ्येत्य महोदयाप्तिमहिमा माहात्म्यवारांनिधेः ।। ३३२ ॥ इति श्रीपाश्र्वनाथकथा । इत्थं प्रसङ्गतः श्रीपाश्र्वनाथचरितमभिधाय प्रस्तुतं व्याख्यायतेमूलम्-तस्स लोगप्पईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विज्जाचरणपारगे ॥२॥ ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थिं नगरिमागए ॥ ३॥ १ सदाधिष्ठितप श्री-पार्कोपि व्यहरत्ततः ।। इति 'घ' पुस्तके ॥ AVEVEGVEGVELVOEVEE VEEVOEVEEVE VEZ VEGVE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy