________________
उचराध्यपनस्त्रम् ॥१६॥
DGIHD
रगप्रभोः ॥ ३०२ ॥ सोऽथ ज्ञात्वाऽवधेः स्वामी-वृत्तान्तं महिषीवृतः ॥ तत्रागत्य द्रुतं भक्तिं, व्यक्तिकुर्वन्ननाम तम् ॥ ३०३ ॥ उन्नालंअध्य० २३ नलिनं न्यस्य, स्वामिनः क्रमयोरधः ॥ भोगाभोगेन भोगीन्द्रः, पृष्टपार्थादिकं प्यधात् ॥३०४॥ तन्मौलौ तु व्यधाच्छत्रं, फणीन्द्रः सप्तभिः ॥१८॥ फणैः ।। ध्यानलीनमनाः स्वामी, तत्र तस्थौ सुखं ततः ॥ ३०५ ॥ नागराजमहिष्योऽपि, नृत्यं चक्रुः प्रभोः पुरः॥ वेणुवीणामृदंगादिधनिव्याप्तदिगन्तरम् ॥ ३०६ ॥ भक्तिकारिणि भोगीन्द्र, द्वेषधारिणि चासुरे ॥ निर्विशेषमनास्तस्थौ, स्वामी तु समतानिधिः! ॥३०७॥ तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् ॥ जातकोपो नागनाथः, साक्षेपमिदमभ्यधात् ॥ ३०८ ।। स्वोपद्रवाय किमिदमारेमे दुष्ट रे ! त्वया ? ॥ दयालोरपि दासोऽहं, सहिष्ये न ह्यतः परम् ! ।। ३०६ ॥ ज्वलन्महोरगः पापा-निषेद्ध स्वामिनाऽमुना ॥ तदाऽदर्यत चेत्तर्हि, विप्रियं तव किं कृतम् ॥ ३१० ॥ निष्कारणजगन्मित्र-मेनं घूक इवारुणम् ॥ हेतोर्विना द्विषन्नद्य, न भविष्यसि पाप रे ! ॥ ३११ ।। तदाकर्ण्य वचो मेघमाली दृष्टिमधो न्यधात् ।। फणीन्द्रसेवितं पाच मपश्यच्च तथास्थितम् ।। ३१२॥ दध्यौ च चकितः शक्तिरियत्येवाखिला मम ॥ सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ॥ ३१३ ॥ किं चार्य भगवान्मुष्ट्या, पेष्टुं वन्नमपि क्षमः॥ क्षमया क्षमते सर्व, भोगीन्द्रादीस्तथापि मे ॥ ३१४ ॥न चान्यच्छरणं विश्वे, मम विश्वे शवैरिणः ॥ तदेनमेव शरणीकरोमि करुणाकरम् ॥ ३१५ ।। ध्यात्वेति मेघ संहृत्य, सोऽसुरः सार्वमाश्रयत् ।। मदागोऽदः क्षमस्वेति, प्रोच्यागाच्च स्वमास्पदम् ॥ ३१६ ॥ नागेन्द्रोऽपि जिनं ज्ञात्वाऽनुपसर्ग प्रणम्य च ।। निजं स्थानं ययौ प्रातर्जिनोऽपि व्यहरत्ततः ।। ३१७ ।। छमस्थत्वेन चतुरशीतिमहनां विहत्य च ॥ तदाश्रमपदोद्यानं, पुनरप्याययौ प्रभुः ॥ ३१८ ॥ ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः ॥ इन्द्रायोपेत्य समवसरणं चक्रिरेऽखिलाः ॥ ३१ ॥ पूर्वसिंहासने तत्रासीने श्रीपाश्र्वपारगे ॥ त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः ।। ३२०॥
ܦܕܦܒܕܦܟܩܐܦܕܦܕܒܕܕܟܬܕܦܦܦ