________________
उत्तराध्ययनसूत्रम्
॥१६७॥
ह्व, तुर्यज्ञानं जिनस्तदा । भुवि भारुण्डपक्षीवा - ऽप्रमत्तो विजहार च ।। २८६ ॥ वासवा श्रपि शक्राद्याः कृतस्वामिव्रतोत्सवाः ।। गवा नन्दीश्वरे कृत्वाऽशहिकां स्वाश्रयं ययुः ॥ २८७ ॥ अन्यदा नगराभ्यर्णदेशस्थं तापसाश्रमम् ॥ विभुर्जगाम विहरन्, मार्त्तण्डवास्तपर्वतम् ।। २८८ ।। ततोऽवटतटस्थस्य, वटस्य निकटे निशि । तस्थौ प्रतिमया स्वामी, नासाग्रन्यस्तलोचनः ॥ २८६ ॥
इतश्च सोऽसुरो मेघ-मालिनामाऽवधेर्निजम् ॥ ज्ञात्वा प्राग्भववृत्तान्तं स्मृत्वा तद्वैरकारणम् ॥ २६० ॥ क्रोधेन प्रज्वलन्नन्त - वियोगीव मनोभुवा ।। पार्श्वनाथमुपद्रोतु ं तं प्रदेशमुपाययौ ॥ २६१ ॥ [ युग्मम् ] विचक्रे चांकुशाकार - नखरान्नखरायुधान्' ।। घोररूपधरान्पुच्छाच्छोटकम्पितभूधरान् ।। २६२ || आप्ते तैर्भीतिमप्राप्ते, भीषणेभ्योऽपि भीषणान् ॥ विदधे सोऽसुरः शैल - प्रायकायान्मतङ्ग| जानू ।। २६३ ।। तैरप्यचकिते नाथे, स्फारफूत्कारकारिणः ॥ यमदोर्दण्डवच्चण्डा - नैकान्नेत्रविषानहीन् ॥ २६४ ॥ उत्कटैः कण्टकैः स्वास्थ्य–ब्रश्चकान्' वृश्चिकांस्तथा ॥ भल्लूकशूकरादींश्व, श्वापदानापदां विधीन् ॥ २६५ ॥ ज्वालामालाकरालास्या--मुण्डमालाढ्यकन्धरान् । प्रेतान् विश्वानभिप्रेता-कारांश्च विचकार सः ॥ २६६ ॥ [ त्रिभिर्विशेषकम् ] प्रभोर्ध्यानं चलयितु ं, तेऽपि न प्रभवोऽभवन् ॥ वज्र मेत्तुमिवोर्द्दश–कीटिकामत्कुणादयः ! ॥ २६७ ॥ ततः क्रुद्धोऽधिकं गर्जा - विद्युद्याप्तदिगन्तराम् ॥ मेघमाली मेघमालां, विचक्रे व्योम्नि भीषणाम् ! ॥ २६८ ॥ नीरैरेनं प्लावयित्वा, हन्म्यहं पूर्वविद्विषम् ।। ध्यायन्निति ससंरम्भः प्रारेमे सोऽथ वर्षितुम् ॥ २६६ ॥ धाराभिमुष्टिमुशल-यूपाकाराभिरुच्चकैः ।। वर्षं वर्षं व्यधादेका- वामिव वसुन्धराम् ॥ ३०० ॥ अभूदाकण्ठमुदकं तदा पाश्र्वप्रभोः चणात् ॥ तदा तदास्यं तत्राभा--पद्मं पद्महदे यथा ॥ ३०९ ॥ नासापार्श्व पार्श्व भतुः पयो यावदुपाययौ ।। चचाल विष्टरस्ताव - दूधरणस्यो -
"
१ सिहान् ॥ २ छेदकान् ॥
अध्य०२३ ॥१६७॥