________________
अध्य० २३. । ॥१६॥
उपराध्ययनसूत्रम् ॥१६॥
क्तवता, श्रीपाश्र्वस्वामिना समम् । वाराणसी नृपः सोऽगात्सहादाय प्रभावतीम् ॥२५१शातातं नत्वा निजं सौधं, गते पार्वे प्रसेनजित्। प्रभावत्या समं गत्वाऽश्वसेननृपमानमत् ।।२५२॥ तं चाश्वसेनोऽभ्युत्थाय, समालिंग्य च निर्भरम् ।। कुशलं ते स्वयं चेह, किमागा इति पृष्टवान् ? ॥२५॥ सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् ।। इह त्यागां महाराज!, त्वां प्रार्थयितुमात्मना ।।२५४॥ नाम्ना प्रभावती मेऽसौ, सुता श्रीपाश्वहेतवे । गृह्यतां देव ! याचा मे, मा भून्मोघा वयि प्रभौ ।।२५शा राजा जगौ कुमारोऽसौ, विरक्तोऽस्ति सदा भवात् ॥ तथाप्युद्वाहयिष्यामि, बलात्तं तव तुष्टये ॥ २५६ ॥ इत्युदित्वा समं तेन, गत्वा पार्धान्तिकं नृपः ॥ इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ॥ २५७ ॥ बाल्यादपि विरक्तोऽसि, भववासात्तथापि हि ॥ मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे! त्वया ॥ २५८ ॥ इत्यश्वसेनोर्वीशेन, पाश्र्वः साग्रहमीरितः ॥ भोक्तुभोगफलं कर्म, परिणिन्ये प्रभावतीम् ॥ २५६ ॥ क्रीडागिरिसरिद्वापि-बनादिषु तया समम् ॥ रममाणो विभुनित्य-मतिचक्राम वासरान् ॥ २६० ॥ गवाक्षस्थोऽन्यदा स्वामी, पुरीं पश्यन्ददर्श सः॥ बहिर्यातो बहून्पुप्प-पटलीपाणिकान् जनान् ॥ २६१ ॥ इत्यपृच्छच पार्श्व स्थान् , पाश्वः कोऽद्य महो महान् ? ॥ पुर्या निर्याति यदसौ, जवनः सकलो जनः ॥ २६२ ॥ ततः कोऽपि जगौ स्वामिन् !, नोत्सवः कोऽपि विद्यते ॥ बहिः किन्वागतोऽस्तीह, कठाह्वस्तापसाग्रणीः ॥ २६३ ।। तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्विरम ।। द्रष्टुं तत्कौतुकं स्वामी, तत्रागात्सपरिच्छदः!॥ २६४ ॥ पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः॥ वन्हिकुण्डक्षिप्तकाप्टे, दह्यमानाहिमैक्षत ॥ २६५ ॥ तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् ॥ अहो तपस्यतो-ऽप्यस्या- | ज्ञानं यन्न दयागुणः ! ॥ २६६ ।। विना चतर्मुखमिव, धर्मः कीदृक्कृपां विना ? ॥ कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव !
दाकण्यं कठोऽशंस-द्राजपुत्र ! भवादृशाः ।। दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् । ॥ २६ ॥ ततोऽग्निकुण्डा
IAAAAAAAAAAAAAAG