________________
उत्तराध्य
यनसूत्रम्
॥१६४॥
येति भटान्मंत्री, साम्ना तं दूतमित्यवक् ॥ सौम्यामिषां मन्तुमेतं, क्षमेथाः मा त्रवीः प्रभोः ॥ २३३ ॥ नन्तु श्रीपाव पादाब्जानू, समेष्यामोऽधुना वयम् ।। इति प्रबोध्य तं दूतं, सचिवो विससर्ज सः ॥ २३४ ॥ हितेच्छुः स्वप्रभुं चैवमूचे देवाऽविमृश्य किम् ॥ दुरुदर्कमिदं सिंह- सटाकर्षणवत्कृतम् १ || २३५ ॥ यस्येन्द्राः पत्तयः सर्वे, तेन कस्तव सङ्गरः १ ।। तदद्यापि न्यस्य कण्ठे, कुठारं पार्श्वमाश्रय ॥२३६॥ क्षमयस्व स्वापराधं तच्छासनमुरीकुरु ॥ अत्रामुत्र च चेत्सौख्यैः, कार्यं कार्यं तदा ह्यदः || २३७ || साध्वहं बोधितो मंत्रि - नित्याख्याद्यनवस्ततः ।। सतंत्रोऽगादुपस्वामि, ग्रीवान्यस्तपरश्वधः || २३८ || वेत्रिणा वेदितश्चान्तः - समं गत्वाऽनमत्प्रभुम् ॥ तन्मोचितकुठारश्र, भूयो नत्वैवमब्रवीत् ॥ २३६ ॥ सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमस्व मे ॥ अभयं देहि भीतस्य प्रसीदादत्स्व मे रमाम् ! ।। २४० ।। ऊचे श्रीपाश्र्वनाथोऽपि, संतु श्रेयांसि ते कृतिन् ! | भुंक्ष्व राज्यं निजं मास्म - भैषी मैवं कृथाः पुनः ! ।। २४१ ।। तथेति प्रतिपन्नं तं, जिनेन्द्रो बह्वमानयत् ।। कुशस्थलपुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ।। २४२ ॥ अथाज्ञया प्रभोर्गत्वा, पुरान्तः पुरुषोत्तमः ॥ प्रसेनजिन्नृपायोचे, तां वात्तां प्रीतचेतसे ॥ २४३ ॥ ततः प्रभावतों कन्या - मुपादायोपदामिव ॥ गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ।। २४४ ॥ यथा स्वयमिहागत्या - न्वग्रहीम जगत्पते ! ।। परिणीय तथा पुत्री - मिमामनुगृहाण मे ॥ २४५ ॥ चिरकालीनरागासौ, त्वयि नान्यं समीहते । तन्निसर्गकृपालोऽस्यां विशेषात्सकृपो भव ।। २४६ ।। स्वाम्यूचेऽहं नृप । त्रातु, त्वामागां पितुराज्ञया ॥ नतूद्रोढुं तव सुतां तदलं वार्त्तयाऽनया ।। २४७ ॥ दध्यौ प्रसेनजिन्नायं, मानयिष्यति मद्गिरा ॥ अश्वसेनोपरोधात्तमानयिष्याम्यदो मुना || २४८ ॥ तेनेति ध्यायता सार्क, सख्यं निर्माप्य सुस्थिरम् ॥ सत्कृत्य बहुधा स्वामी, व्यसृजद्यवनं नृपम् ॥ २४६ ॥। विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः ॥ इत्यूचे श्रीअश्वसेनं नन्तुमेष्याम्यहं विभो ! || २५० ।। ततमित्यु
अध्य०२३ ॥१६४॥