________________
उत्तराध्य
अध्य
॥१०॥
यनसूत्रम् ॥१६॥
सास-ससार
नित्यमादर्शा-निरुपायानदर्शयत् ॥ १६४ ॥ यत्र चैत्येषु सौवर्णाः, कलसाः कलसानुषु ॥ पूजयन्ति करैर्भानु-मम्यागतमिवागतम् ॥१६५ ॥ यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् ॥ पुण्याभ्युदयलम्यानि, विमानानीव नाकिनाम् ॥ १६६ ॥ स्वर्गिणा भोजनायाऽपि, सुधा मिलति याचिता ॥ चित्रं यत्र सुधालिप्ताः, प्रायः सर्वगृहा अपि ! ॥१६७ ॥ अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा ॥ कुत्रिकापणराजीव, रेजे यत्रापणावली ॥ १६८ ॥ प्रत्यक्षां वीक्ष्य यल्लक्ष्मी, दक्षा विश्वातिशायिनीम् ॥ अशङ्कन्ताश्माम्बुशेषौ, रोहणाद्रिपयोनिधी ॥ १६६ ॥ अश्वसेनाभिधो विष्वक्-सेनसन्निभविक्रमः ॥ तत्राभूत्पार्थिवः पृथ्वी--वास्तव्य इव वासवः ॥ १७० ॥ गुणैरवामा वामाह्वा, शीलादिगुणशालिनी ॥ तस्यासीद्वल्लभा राज्ञः, स्वप्राणेभ्योऽपि वल्लभा ॥ १७१ ॥ सुवर्णबाहुजीवोऽथ, च्युत्वा प्राणतकल्पतः।। कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ॥१७२ ॥ तदा सा समुखी कुम्भि-प्रमुखान् विशतो मुखे ॥ चतुर्दश महास्वप्नान् , ददर्श शयिता सुखम् ॥ १७३ ॥ शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थममुं जगुः ॥ स्वप्नरेभिः सुतो भावी, तव देवि ! जगत्पतिः ॥ १७४ ॥ ततः प्रमुदिता वामा-देवी गर्भ दधौ सुखम् ॥ काले च सुषुवे पुत्रं, नीलद्युतिमहिध्वजम् ॥ १७५ ॥ विज्ञाय विष्टरास्थैर्या-प्रभोर्जन्मागतास्तदा ॥ षट्पञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ॥१७६ ॥ ज्ञात्वा जन्मावधेस्तस्य, शकाद्या वासवा अपि ॥ जन्माभिषेककल्याणं, सुमरौ विधिवद्व्यधुः ॥ १७७ ॥ पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि ॥ कारामोक्षादिकं चक्रे, सूनोर्जन्महोत्सवम् ॥ १७८ ॥ गर्भस्थेऽस्मिन्कृष्णरावा-बपि माता स्वपार्श्वतः ॥ ददर्श सर्प सर्पन्तं, द्रुतं भत्तु रुवाच च ॥ १७६ ॥ प्रभावोऽयं हि गर्भस्ये-त्यूचे भूपोऽपि तां तदा ॥ तच्च स्मृत्वा नृपः सूनोः, पार्श्व इत्यभिधां व्यधात् ॥ १८० ॥ लाल्यमानोऽथ धात्रीभि-रादिष्टाभिविंडोजसा ॥ शिशुभूतैः |
१ सर्पलांछनम् । २ इन्द्रेण ।
DIGIARRRRRRRRIADERSE