________________
उत्तराध्य
यनसूत्रम् ॥ १० ॥
'सर्वत्र' क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवंरूपां 'त्रियां' सम्यग्ज्ञानरूपां 'अनु' लक्षीकृत्य 'सञ्चरे: ' सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ॥ ३० ॥ तथा
मूलम् - पडिक मामि परिणाणं, परमंतेहिं वा पुणो । अहो उट्टिए अहोरायं, इइ विज्जा तवं चरे ॥ ३१ ॥
व्याख्या– 'प्रतिक्रमामि' प्रतिनिवत्तें “पसिगाणं” ति 'प्रश्नेभ्यः' शुभाशुभसूचकेभ्योऽङ्ग ुष्ठप्रश्नादिभ्यः, तथा परे-गृहस्थाः तेषां मन्त्राः-तत्कार्यालोचनरूपास्तेभ्यो, 'वा' समुच्चये, 'पुनः' विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयमं प्रति उत्थानवान् सः 'अहो' इति विस्मये 'उत्थितो' धर्मम्प्रत्युद्यतः, कश्चिदेव हि महात्मा एवंविधः स्यादित्याश्चयं, 'अहोरात्र' अहर्निशं 'इति' एतदनन्तरोक्त' "बिज्ज" ति 'विद्वान्' जानन् “तवं" ति गम्यत्वादवधारणस्य तप एव न तु प्रश्नादि 'चरे:' आसेवेथा इति सूत्रार्थः ||३१|| अथ सञ्जययतिना कथमायुर्वेत्सीति पृष्टोऽसावाह
मूलम् - जं च मे पुच्छसी काले, सम्मं सुद्धे चेअसा । ताई पाउकरे बुद्ध, तं नाणं जिणसासणे ॥ ३२॥
घ्याख्या—यच्च 'मे' इति मां पृच्छसि 'काले' कालविषयं सम्यक् शुद्धेन चेतसोपलक्षितः, "ताई" ति सूत्रत्वात् तत् 'प्रादुष्कृतवान्' प्रकटितवान् 'बुद्ध:' सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद्वाक्यस्य जिनशासने एव न त्वन्यत्र सुगतादिशासनेऽतो जिनशासने एव यत्नः कार्यो येन यथाऽहं जानामि तथा त्वमपि ज्ञास्यसि इति भाव:, इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टमाहमूलम् - किरि च रोए धीरो, अकिरिअं परिवजिए । दिट्ठिए दिट्टिसंपन्ने, धम्मं
सुदुच्चरं ॥३३॥
अध्य०१८
॥ १० ॥