________________
उत्तराध्य
यनसूत्रम् ॥ ६॥
मम ते तादृशा विदिताः, ततोऽहं तदुक्ताकर्णनादेः संयच्छामि इति सूत्रार्थः ।। २७ ।। कथमात्मानमन्यभवादागतं वेत्सि ? इत्याहमूलम् - मासि महापाणे, जुइमं वरिससवमे । जा सा पाली महापाली, दिव्वा वरिससवमा ॥ २८ ॥ से 'चुए वंभलोआओ, माणुस्तं भवमाग । अपणो अ परेसिं च, आउं जाणे जहा तहा ॥२६॥ व्याख्या—“श्रहमासि”त्ति अहमभूवं 'महाप्राणे' ब्रह्मलोकविमाने द्युतिमान् वर्षशतजीविना उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपी समासः, अयमथ-यथेह सम्प्रति वर्षशतजीवी पूर्णायुरुव्यते तथाऽहमपि तत्र पुर्णायुरभूवम् । तथाहि या सा पालिखि पालि:जीवितजलधारणाद्भवस्थितिः सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, 'महापाली' सागरोपमप्रमाणा, तस्या एव महत्त्वात् । दिनि भवा दिव्या वर्षशतैः–केशखण्डोद्धारहेतुभिरुपमा अर्थात् पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापाली दशकरूपा दिव्या भवस्थितिरासीदित्युपस्कारः, ततश्चाहं वर्षशतोपमायुरभूवमिति भावः ।। " से " इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकाद् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशयमुक्त्वाऽतिशयान्तरमाह - श्रात्मनश्च परे व आयुर्जानामि 'यथा' येन प्रकारेण स्यात् ' तथा ' तेनैव प्रकारेण न त्वन्यथेति भाव इति सूत्रद्वयार्थः ॥ २८- २६ ॥ इत्थं प्रसङ्गादमपि स्त्रवृत्तान्तमाचख्योपदेष्टुमाह
मूलम् - नाणा रुइं च छंदं च, परिवज्जिज्ज संजए । अट्ठा जे अ सव्वत्था, इइ विज्जाम संचरे ॥३०॥
व्याख्या—'नाना' अनेकधा 'रुचिं च' प्रक्रमात् क्रियावाद्यादिमतविषां वाञ्छ 'छन्दश्व' स्वमतिकल्पितमाशयम् । इहापि नानेति सम्बन्धादनेकत्रिधं परिवर्जयेत् संयतः । तथा 'अनर्थाः' निःप्रयोजनाः ये च व्यापारा इति गम्यं, “सव्वत्था” अत्राऽऽकारस्यालाक्षणिकत्वात्
अध्य०१८ ॥ ६॥