SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ ८ ॥ मूलम् — पडंति नरए घोरे, नरा पावकारिणो । दिव्वं च गई गच्छति, चरित्ता धम्ममारि ॥ २५ ॥ 'व्याख्या - पतन्ति नरके 'घोरे' रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कर्त्तुं शीलं येषां ते पापकारिणः, ‘दिव्यां’ देवसन्बन्धिनीं सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति 'चरित्वा' आसेव्य 'धर्मम्' इह सत्प्ररूपणारूपं 'आर्यम्' ततोऽसत्प्ररूपणां हित्वा सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ॥ २५॥ अथ कथममी पापकारिणः ९ इत्याहमूलम् - मायाबुइ अमेयं तु, मुसाभासा निरत्थिया । संजममाणो वि अहं, वसामि इरिश्रामि ॥२६॥ उत्तमम् व्याख्या - मायया - शाठ्येन “बुइयं" ति उक्तं मायोक्तं 'एतद्' अनन्तरोक्तं क्रियादिवादिभिरुक्तं, 'तुः ' एवकारार्थः स च मायोक्तमेवेत्यत्र योज्यः, अत एव तेषां मृषा भाषा 'निरर्थिका' सम्यगभिधेयशून्या, ततः " संजममाणो वि "त्ति अपिरेवकारार्थः, ततः 'संयच्छन्नेव' उपरमन्नेव तदुक्तिश्रवणादेः 'अहमि' त्यात्मनिर्देशो विशेषेण तं स्थिरीकत्तु 'वसामि' तिष्ठामि उपाश्रय इति शेषः, "इरिआमिश्रति 'ईरे च' गच्छामि च गोचरादाविति सूत्रार्थः ||२६|| कुतस्त्वं तदुक्ताकर्णनादुपरमसि ? इत्याह मूलम् सव्वे ते विइया मझ, मिच्छादिट्ठी अणारिया । विज्जमाणे परे लोए, सम्मं जाणामि अप्पयं ॥२७॥ व्याख्या-सर्वे 'ते' क्रियादिवादिनो विदिता मम यथाऽमी मिध्यादृष्टयः तत एव 'अनार्याः' पशुहिंसाद्यनार्य कर्मप्रवृत्ताः कथमीदृशाः 'ते' तत्र विदिताः ? इत्याह-विद्यमाने 'परलोके ' अन्यजन्मनि सम्पन् जानाम्यात्मानं भवान्तरादागतं, ततः परलोकात्मनोः सम्यग्वेदनाद् १० दिव्यां वा सर्वगतिप्रधानां सिद्धि० इति हर्षप्रतौ । अध्य०१८ ॥ ८ ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy