________________
N
उत्तराध्य
अध्य०१८ ॥७ ॥
यनसूत्रम्
॥७॥
VeeeeeeeeeeeeeeeeeeeeeeeYC
रगतदेवदत्तादृष्टाकृष्टमणिमुक्तादीनामिहागमनं न स्यादिति, भिन्न देशरथस्याप्ययरकान्तादेलोहाद्याकर्षणशत्तिदर्शनात् शरीरच्यापिनोरपि धर्माऽधर्मयो(रस्थस्याऽपि वस्तुन आकर्षणमुपपद्यत एवेति न विभुत्वमात्मनो युज्यते । तथाऽविभुरप्यङ गुष्टपर्वमात्रायधिष्ठानो यैरिष्यते तेषामपि शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः स्यान्न चैवं दृश्यते, एवं कर्तृत्वाद्यकान्तवादोऽपि स्वधियाऽपासनीयः । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गत्तरं, अहं सुखीत्यादिप्रत्ययानामन्यथानुपपत्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगोमृगकरभमहिषकुक्कुरलगलशृगालकाकमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टञ्चैतद्, लोकसमयवेदेषु गुणाधिकस्यैव विनयाहतया प्रतीतत्वात, तदन्यविनयस्य चाशुभफलत्वात् । अज्ञानवादिनश्च ज्ञानस्य मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्य, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात, ज्ञानं विना च भूयोपि कर्मानुष्ठानं पशोरिव व्यर्थमेव स्यादिति सर्वेऽप्यमी कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत्स्वाभिप्रायेणैवोच्यते इत्याहमूलम् - इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥२४॥
व्याख्या-'इति' एते क्रियावाद्यादयः कुत्सितं प्रभासन्ते इत्येवं रूपं "पाउकरे"त्ति 'प्रादुरकार्षीत् ' प्रकटितवान् 'बुद्धो' ज्ञाततत्त्यो | ज्ञात एव 'ज्ञातक' क्षत्रियः, स चात्र प्रस्तावाद् महावीरः, 'परिनिवृतः कषायानल विध्यापनाच्छीतीभूतः विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां सम्पन्नो यः स तथा, अत एव 'सत्यः' सत्यवाक् 'सत्यपराक्रमः सत्यवीर्यः इति सूत्रार्थः ॥२४॥ तेषां फलमाह
EGVESEVEGVANG VEGVES