________________
उत्तराध्य
यनसूत्रम्
॥१८८॥
सुवर्णबाहोस्तां, गालवस्यैयुषो गृहम् ॥ रत्नावल्याश्च सानन्दा - नन्दाख्या तत्सखी जगौ ॥ १२८ ॥ ततो रत्नावलीपद्मा-नन्दाभिः सह गालवः । ययावुपनृपं दृष्टः सोऽपि तं बह्वमानयत् ॥ १२६ ॥ अथोचे गालवो राजन् ! पद्मां मे जामिजामिमाम् ॥ पाणौ गृहाण प्रोक्ता हि, भार्याऽसौ ज्ञानिना तव ॥ १३० ॥ तच्छ्र ुत्वा दृष्टसुस्वप्न-इवोच्चैमुदितो नृपः । गान्धर्वेण विवाहेन, तामुपायंस्त रागिणीम् ॥ १३१ ॥ वैमात्रैयोऽथ पद्मायास्तदा पद्मोत्तराह्वयः । विमानैश्छादयन् व्योम, तत्रागात्खेचरेश्वरः ॥ १३२ ॥ रत्नावल्या ज्ञापितस्तं, नृपं नत्वैवमब्रवीत् ॥ देवायातोऽस्मि सेवायै, ज्ञात्वोदन्तममु ं तव ॥ १३३ ॥ प्रभो ! पुनीहि त्वं स्वीय पादपद्मसमागमात् ।। वैताढ्य पर्वते रत्न - पुरं नाम पुरं मम ॥ १३४ ॥ तत्प्रपद्यापृच्छय रत्ना - वलीं कुलपतिं तथा ।। भूमान् विमानमारोह - त्तस्याशु सपरिच्छदः ॥ १३५ ॥ नत्वा मातुलमम्बां च, सस्नेहं तदनुज्ञया || पद्माप्यश्रुजलक्लिन्न - भूतला पतिमन्वगात् ॥ १३६ ॥ ततः पद्मोत्तरः पद्मा-संयुतं तं धराधवम् ॥ सद्यो वैताढ्य शिखरि - शेखरे स्वपुरेऽनयत् ॥ १३७॥ दत्वा च रत्नप्रासादं दिव्यं स्नानाशनादिना ॥ स खेचरोऽनुचरव-त्स्वर्णबाहुमुपाचरत् ॥ १३८ ॥ स्वर्णबाहुर्महाबाहु-स्तत्रस्थः प्राज्यपुण्यतः । श्रेणिद्वितयसाम्राज्य-माससाद दुरासदम् ॥ १३६ ॥ विद्याधरकनीस्तत्र, भूयसीरुदुवाह च । पद्माद्याभिः समं ताभिः स्वपुरेऽगाच्च सोऽन्यदा ।। १४० ।। जातचक्रादिरत्नश्च, षट्खण्डं क्षितिमण्डलम् || सुवर्णबाहुभूपालः साधयित्वान्वशाच्चिरम् ॥ १४१ ॥ प्रासादोपरि सोऽन्येद्युः क्रीडन्नन्तः पुरीवृतः ॥ सविस्मयोऽम्बरेऽपश्य- गमागमपरान्सुरान् ।। १४२ ॥ ततो ज्ञात्वा जगन्नाथ तीर्थनाथसमागमम् ॥ गत्वा नत्वा जिनं मोहा पहां शुश्राव देशनाम् ।। १४३ ।। सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् ।। प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः ॥ १४४ ॥ स्मरन् जिनान्तिके दृष्टान्सुरांश्चक्री स चान्यदा । दृष्टा मयेदृशाः पूर्व-मपि क्वापीति भावयन् ॥ १४५ ॥ जातिस्मरणमासाद्य, ददर्श प्राग्भवानि -
अध्य०२३ ॥१८८॥