________________
अध्य० २३
॥१८७॥
उपराध्ययनसूत्रम् ॥१८७॥
स
KI सुते वजि-जैत्रतेजसि पार्थिवे ॥ नेश्वरोऽपीश्वरः कत्तुं, तापसानामुपद्रवम् ॥ १११ ॥ मुग्धासौ तु कजभ्रान्त्या, षट्पदाद्दशतो मुखम् ॥
वित्रस्ता रक्ष रक्षेति, व्याजहार सखी मम ! ॥ ११२ ॥ त्वं पुनः कामजिद्रूपः, कोऽसीति बेहि सन्मते ! ॥ तयेत्युक्तोऽवदद्भपः, स्वयं | स्वं वक्तुमक्षमः ॥ ११३ ॥ सुवर्णबाहुभूजाने-मां जानीहि वशंवदम् ॥ आश्रमोपद्रवं हन्तु-मिह त्वागां तदाज्ञया ॥११४ ॥ किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा ॥ रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ? ॥ ११५ ॥ साऽवादीत्खेचरेन्द्रस्य, सुता रत्नपुरप्रभोः ॥ रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ॥११६ ॥ तातो विपेदे जाताया-ममुष्यां तत्सुतास्ततः ॥ मिथोऽयुध्यन्त राज्यार्थ, ततोऽभूद्विड्वरो महान् ! ॥११७॥ रत्नावली विमां बाला-मादायागादिहाश्रमे ॥ निजभ्रातुः कुलपते-लवाहस्य मन्दिरम् ॥११॥ ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनः॥ कामकारस्करांकुर-जीवनं चाप यौवनम् ॥ ॥ ११६ ।। अत एवर्षिकन्यानां, कर्मादः क्रियतेऽनया ॥-याशः किल संवासः, स्यादभ्यासोऽपि तादृशः॥१२०॥ साधुरेकोऽन्यदा ज्ञाना-लोकभानुरिहाययौ ॥ पद्मायाः कः पतिर्भावी-त्यपृच्छत्तं च गालवः ॥१२१ ॥ ऊचे साधुरिहायत-श्चक्रभृद्वाजिना हृतः॥ सुवर्णबाहुर्भाव्यस्याः, विवोढा वज़बाहुजः ॥१२२ ॥ ततो दध्यौ मुदा मापो, हयेनोपकृतं मम ॥ हृत्वाहं यदिहानिन्ये, सङ्गमोऽस्याः नचेत्क्क मे ? ॥ १२३ ॥ इत्यूचे च नृपो ब्रहि, भद्रे कुलपतिः क सः ॥ तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्ग इव भास्करम् ॥ १२४ ॥ सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् ।। किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुनाश्रमम् ॥ १२५ ॥ तदा तत्राययौ राज्ञः, सैन्यमश्वपदानुगम् ॥ सुवर्णबाहुरेवाय-मिति ते दध्ततस्ततः॥ १२६ ॥ कुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी ॥ पद्मा समाऽनयद्भप-दर्शनासक्तदर्शनाम् ॥ १२७ ॥ वार्ता
१ समर्थः।
ARARANASI