________________
उत्तराध्ययनसूत्रम् ॥१२॥
तपो भृशम् ॥ २६ ॥ मरुभतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् ॥ धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रजविडम्बकम् । ॥ २७ ॥ गृह-शामध्य०२३ दुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् ॥ इति नीतिवचोऽप्यद्य, व्यस्मा हि रुषाकुलः ! ॥ २८ ॥ क्षमयामि तदद्यापि, मन्तुमेनं 9॥१८२॥ निजाग्रजम् ॥ ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ॥ २६॥ कमठो दुर्धियामेक-मठो दुष्कर्मकर्मठः ॥ विडन्बनां तां तन्मूलां, मृत्योरप्यधिका स्मरन् ॥३०॥ मूर्ध्नि प्रणमतो भ्रातु-स्तदोत्क्षिप्याऽक्षिपच्छिलाम् ॥ दुष्टस्य सान्त्वनं नूनं, शान्तस्याग्नेः प्रदीपनम् ! ॥ ३१ ॥ [ युग्मम् ] तत्प्रहारचण्णमौलि-मृत्वाऽऽर्तध्यानयोगतः ।। मरुभूतिरभूद्विन्ध्या -चले यूथाधिपो द्विपः ॥ ३२ ॥
इतश्च शरदि क्रीडन् , समं स्त्रीभिग होपरि ॥ अरविन्दनृपोऽपश्य-क्षणाल्लब्धोदयं धनम् ॥ ३३ ॥ शकचापाश्चितं तं च, गजन्तं हृद्यविद्युतम् ॥ अहो रम्योयमित्युच्चै-वर्णयामास भूधवः। ॥ ३४ ॥ मेघः स तु क्षणाद्वयोम्नि, व्यानशे तैलवज्जले ॥ क्षणाच्चाऽपुण्यवाञ्छाव-द्वातोद्धृतो व्यलीयत ! ॥ ३५ ॥ ततो दध्यौ नृपो दृष्ट-नष्टोऽसौ जलदो यथा ॥ तथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः ? ॥ ३६ ॥ ध्यायन्नित्यादि तत्काल-मवधिज्ञानमाप सः ॥ राज्ये न्यस्याङ्गजं पार्थे, सद्गुरोश्चाददे व्रतम् ॥ ३७॥ क्रमाच्च श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत् ।। समं सागरदत्तेभ्य-सार्थेनाष्ठापदम्प्रति ॥ ३८ ॥ तं नत्वा सार्थपोऽपृच्छत् , क्व वो गम्यं ? प्रभो ! इति ॥ मन्तव्यं तीर्थयात्रार्थ, ममेति यतिरप्यवक् ॥ ३० ॥ सार्थेशः पुनरप्यूचे, धर्मः को भवतामिति ? ॥ ततः सविस्तरं तस्मै, जैन धर्म मुनिजेगो ॥ ४० ॥ तश्चाकण्र्य सकरणों द्राक, श्राद्धत्वं प्रत्यपादि सः॥ सुक्षेत्रे बीजबद्दथे, खुपदेशो महाफलः ! ॥४१॥ सोऽथ सार्थोऽट- TI वीं प्राप, मरुभूतिगजाश्रिताम् ।। तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ।। ४२ ।। तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः ।। तत्रागत्य तटाकेऽम्भो-ऽम्भोदोऽम्भोधाविवापिवत् ॥ ४३ ॥ करिणीभिः समं तत्र, क्रीडित्वा पालिमाश्रयत् ॥ दिशः पश्यन्नपश्यच्च, तं
VEGEGEVEEEEEEEEEE