SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उचराध्य ॥ अथ त्रियोविंशमध्ययनम् ॥ अध्य०२३ ॥१८॥ यनसूत्रम् ॥१८॥ ॥ॐ॥ उक्तं द्वाविंशं, अथ केशिगौतमीयं त्रयोविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने हि कथञ्चिदुत्क्मविश्रोतसिकेनापि रथनेमिवद्धर्मेधृतिः कार्येत्युक्तं, अत्र तु परेषामपि मनोविप्लवः केशिगौतमवदपनेय इत्युच्यते । इतिसम्बन्धस्यास्येदमादिसूत्रंमूलम-जिणे पासित्ति नामेणं, अरहा लोगपूइए । संबुद्धप्पा य सव्वएणू, धम्मतित्थयरे जिणे ॥१॥ व्याख्या-'जिनो' रागद्वेषादिजेता पार्श्व इति नाम्नाभूदिति शेषः 'अर्हन्' विश्वत्रयविहितपूजार्हः, अत एव लोकपूजितः, सम्बुद्धः स्तत्त्वावबोधवानात्मा यस्य स तथा । स च छबस्थोऽपि स्यादित्याह सर्वज्ञस्तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थ धर्मतीर्थ तत्करणशीलो धर्मतीर्थकरो 'जिनः सकलकर्मजेता, मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥१॥ अत्र प्रसङ्गागतं श्रीपार्श्वचरितं लेशतो लिख्यते, तथा हि अत्रैव भरते वासा-वसथे सकलश्रियाम ॥ गर्भगेहोपमं जज्ञे, पत्तनं पोतनाभिधम् ॥१॥ नीतिवल्लीघनस्तत्र, गुणालंकृतभू| घनः ॥ जिनधर्मारविन्दालि-रविन्दोऽभवन्नृपः ।। २ ।। लब्धशास्त्राब्धिरोधास्त-पुरोधा जिनधर्मवित् ॥ विश्वभूतिरभूतस्य, भार्या चानुद्धराभिधा ॥ ३ ॥ सुतौ तयोश्च कमठ-मरुभूती बभूवतुः ।। वरुणावसुन्धराह तयोश्चाभवतां प्रिये ॥ ४ ॥ विश्वभूति-MAI |श्मभार-मारोप्य सुतयोस्तयोः ।। प्रपद्य प्रायमन्येद्य-विपद्य त्रिदिवं ययौ ॥ ५ ॥ भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा ॥शोषयित्वा ना वपुः शोक-तपोभ्यां मृत्युमासदत् ! ॥ ६ ॥ चक्रतुः सोदरौ तौ च, स्वपित्रोरोर्ध्वदेहिकम् ।। पुरोहितपदं त्वाप, कमठः स हि पूर्वजः ACEEVEE VEEVEVEVÈGE VE सासरा
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy