SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१७६॥ "फासेत्ति" स्प्राक्षीदिति सूत्रद्वयार्थः ॥ ४७ ॥ द्वयोरप्युत्तरवक्तव्यतामाह - मूलम् - उग्गं तवं चरित्ता गं, जाया दुरियवि केवली । सव्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ४८ “दोरिणवित्ति " द्वावपि रथनेमिराजीमत्यौ । अनयोश्च चत्वारि वर्षशतानि गार्हस्थ्ये, वर्षमेकं छास्थ्ये, पञ्च वर्षशतानि केवलि - त्वे, एकाधिकनववर्षशतानि सर्वायुरभूदिति सूत्रार्थः ॥ ४८ ॥ श्रथाध्ययनार्थमुपसंहरन्नुपदेशमाह - मूलम् - एवं करिंति संबुद्धा, पंडिया पवित्रक्खणा । विणिभट्टति भोगेसु, जहा से पुरिसुत्तमुत्ति बेमि ४६ व्याख्या — एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, विनिवर्त्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्त्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥ ४६ ॥ इति ब्रवीमीति प्राग्वत् ॥ इतश्च ॥ 11 भगवान्नेमिनाथोऽपि, विहरन्नवनीतले । पद्मानिव सहस्रांशु - व्यसत्त्वानबुबुधत् ॥ ४२७ ॥ दशचापोच्छ्रयः शंख - लक्ष्माम्भोदप्रभः प्रभुः ॥ दिशो दशाऽऽदिशन् धर्मं, दशभेदमपात्रयत् ॥ ४२८ अष्टादशसहस्राणि साधूनां 'साधुकर्मणाम् ॥ चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ।। ४२६ ॥ एकोनसप्ततिसहस्राग्रं लतमुपासकाः ॥ लक्षत्रयं च षट्त्रिंशत्सहस्राढ्यमुपासिकाः ॥ ४३० ॥ चतुःपंचाशद्दिनोनां, सप्तवर्षशतीं विभोः ॥ आकेवलाद्विहरतः, संघोऽभूदिति संभवः ॥ ४३१ ॥ [ त्रिभिर्विशेषकम् ] पर्यन्ते चोज्जयन्ताद्री, प्रपेदेऽनशनं प्रभुः ।। षट्त्रिदशाधिकैः सार्द्धं साधूनां पञ्चभिः शतैः ॥ ४३२ ॥ तैः साधुभिश्र सह वर्षसहस्रमान -मायुः प्रपूर्य जिनभानुररिष्टनेमिः ।। मासेन निवृ तिसुखानि ततः प्रपेदे चक्रे तदा च महिमा सकलैः सुरेशैः ।। ४३३ ।। इति श्रीअरिष्टनेमि जिनचरितम् ॥ १ साधुधर्मणाम् । इति 'घ' पुस्तके ॥ २ सत्तमः । इति 'घ' पुस्तके SECYCLEEVE VEE अध्य० २२ ॥१७६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy