________________
उत्तराध्य
यनसूत्रम्
॥ १७८ ॥
विष्यावस्तच्चेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मंत्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिवन्ति, न त्वगन्धनाः । तर्हि किं कार्यमित्याह - संयमं निभृतः स्थिरः 'चर सेवस्व ॥ ४३ ॥ यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु तास्विति गम्यते । ततः किमित्याह - 'वाताविद्धो वायुप्रेरितो 'हठो' वनस्पतिविशेषः स इव 'अस्थितात्मा' अस्थिराशयो भविष्यसि । हो मूलतया यतो यतो वातो वाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां कुर्वस्त्वमपीति ॥ ४४ ॥ ' गोपालो' यः परस्य गाः पालयति, 'भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स यथा तद्द्रव्यस्य गवादेः 'अनिश्वरो' प्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्याभावादिति सूत्रषोडशकार्थः ॥ ४५ ॥ एवं तयोक्त रथनेमिः किं चकारेत्याह
मूलम् -- तीसे सो वयणं सोच्चा, संजयाइ सुभासि । अकुसेण जहानागो, धम्मे संपरिवाइ ॥४६॥ मागुत्तो वयगुत्तो, कायगुत्तो जिइदि । सामरणं निच्चलं फासे, जावज्जीवं दढव्व ॥४७॥
व्याख्या - अंकुसेणेत्यादि - अंकुशेन यथा नागो हस्ती मार्गे इतिशेषः, 'धर्मे' चारित्रधर्मे ' संप्रतिपातितः स्थितः तद्वचसैवेति गम्यते । अत्रचायं वृद्धवादः “ नू पुरपण्डिताख्याने रुष्टेन राज्ञा देवीमिठवारणा मारणार्थं गिरिशृङ्गमारोपिताः, तत्र नृपादिष्टमिष्ठनुन्नेन दन्तिना पातार्थं क्रमात्त्रयः क्रमा आकाशे कृताः, ततः किमयं चिन्तामणिरिव दुरापो द्विपचूडामणिमुधा मार्यत इत्यार्य लोकैविज्ञप्तेन राज्ञा हस्तिरक्षणायोक्तो हस्तिपको राज्ञ्या आत्मनश्चाभयमभ्यर्थ्य तं गजं शनैः शनैः शैलशिखरादुदतारयदिति " यथा चायं तावतीं भुवं प्राप्तोऽपि द्विपोऽङ्क ुशवशात्पथि संस्थितः, एवमयमप्युत्पन्नवि श्रोतसिको राजीमतीवाक्येनाहितप्रवृत्ति निवर्त्तकतयाङ्क शदेश्येन धर्मे स्थितः ॥ ४६ ॥
अध्य०२२
॥ १७८ ॥