________________
अध्य० २२ ॥१७॥
उत्तराध्ययनसूत्रम् ॥१७॥
सा
पचारैश्चाप्तचेतना ॥ दुखोद्गारोपमांश्चके, विलापानिति दुःश्रवान् ! ॥ ३८४ ॥ दोषं विनापि रक्तां मां, त्यक्त्वा नाथ ! कुतोऽगमः १ ॥ त्वादृशां हि विशां भक्त-जनोपेक्षा न युज्यते ! ॥ ३८५ ॥ सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् ॥ जहात्यङ्कमृगं नेन्दु-नचाब्धिर्वडवानलम् ! ॥ ३८६ ॥ सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगत्प्रभो ! ॥ तदा किमर्थ स्वीकृत्य, विवाहं मां व्यडम्बयः? ॥ ३८७॥ यद्वा ममैवासौ दोषो-रज्यं यत्त्वयि दुर्लभे ॥ काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे ! ॥ ३८८ ॥ रूपं कला कुशलता, लावण्यं यौवनं कुलम् ॥ त्वया स्वीकृत्य मुक्तायाः, सर्व मे विफलं विभो!॥ ३८६ ॥ निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोच्चकैः॥ ज्वलतीव वपुः कान्त !, त्वद्वियोगव्यथाभरैः ! ॥ ३६० ॥ पशुष्वासीः कृपालुस्त्वं, यथा मयि तथा भव ।। त्वादृशा हि महात्मानः, पंक्ति| भेदं न कुर्वते ॥ ३६१ ॥ दृशा गिरा च मां रक्तां, विभो ! सम्भावयैकशः ॥ को हि वेत्ति विनाऽऽस्वाद, मधुरं कटु वा फलम् ? ॥३६२॥ यद्वा सिद्धिवधूत्कस्य, तव सापि पुलोमजा ॥ मनो हरति नो तर्हि, क्वाहं मानुषकीटिका ? ॥ ॥ ३६३ ॥ इत्युच्चैर्विलपन्तीं तो, कनी संख्योऽवदन्नदः॥ मा रोदः सखि ! यात्वेष, नीरसो निष्ठुराग्रणीः ॥ ३६४ ॥ भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः ॥ स्वानुरूपं वरं तेषु, घृणुयास्त्वं मनोहरम् ॥ ३६५ ॥ ततः कौँ पिधायैव-मूचे राजीमती सती ।। किमेतदचे युष्माभि-ममापि प्राकृतोचितम् ॥३६६॥ निशा भजति चेद्भानु, बृहद्भानु च शीतता ।। तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ॥ ३६७ ॥ नेमेः पाणिविवाहे चेन्मत्पाणौ न भविष्यति । तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः ॥ ३६८ ॥ आशयोऽयं तवोत्कृष्टो, जगतोऽपि महाशये ! ॥ इत्यूचानास्तंतःप्रोच्चैः, स्वसखीः सा सतीत्यवक् ॥ ३६॥ ॥ स्वप्नेऽद्यैरावणारूढो, दृष्टः कोऽपि पुमान्मया ॥ मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ॥ ४०० ॥ सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् । ॥ स मया याचितो मह्य-मपि तानि ददौ द्रुतम् ॥ ४०१ ॥
ALEVEEVELEVENE