________________
उत्तराध्ययनसूत्रम् ॥१७॥
अध्य० ॥१७॥
verdede
प्यति ! भवान्तरेषु परलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानिवाच्च भगवतः कथमियं चिन्ता स्यात् ? ॥ १६ ।। ततश्च ज्ञातजिनाशयेन सारथिना मोचितेषु तेषु परितोषाद्यत्प्रभुश्चक्रे तदाह-"सुत्तगं चत्ति" कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि "पणामएति" अर्पयतीति सूत्रसप्तकार्थः ॥ २०॥ ततो यदभृत्तदुच्यते
अवलिष्ट ततः स्वामी, सद्यो वक्र इव ग्रहः ।। करुणारसपाथोधि-विश्वजन्तुहितावहः ! ॥ ३७० ॥ शिवासमुद्रविजयौ, पुरो भूय तदा प्रभुम् ॥ इत्यूचतुरजस्राश्रु-धारामेघायितेक्षणौ ! ॥ ३७१ ॥ किं वत्सास्मत्प्रमोदद्रु-मुन्मूलयसि मूलतः ॥ किं खेदयसि कृष्णादीन, स्वीकृतत्यागतो यदून् ॥ ३७२ ।। भवत्कृते स्वयं गत्वा, वृतपूर्वी तदङ्गजाम् ।। अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ।। ३७३ ।। कथं वा भाविनी जीव-मृता राजीमती कनी? ॥ भत्तहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा ? ॥३७४ ॥ कृत्वोद्वाहं तदस्माकं, दर्शय स्ववधूमुखम् ॥ प्रथमप्रार्थनामेना, सफलीकुरु वत्स ! नः ॥ ३७५ ।। बभाण भगवान्पूज्याः !, श्लथयन्त्वेनमाग्रहम् ॥ प्रवय॑ते | हितेऽर्थे हि, स्वाभीष्टो नाऽपरे पुनः ॥ ३७६ ॥ यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् । अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्मतिम्!
॥ ३७७ ॥ तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् ॥ ॥ कती हि यतते प्रेत्य-हिते नाऽऽपातसुन्दरे ! ॥ ३७८ ।। [युग्मम् ] वदन्तमिति तं सावं, सर्वे कम्पितबिष्टराः। तीर्थ प्रवर्तयेत्यूचु-रेत्य लोकान्तिकामराः ॥ ३७६ ॥ समुद्रविजयादींच, ते देवा | एवमूचिरे ॥ शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे ? ॥ ३८० ॥ अयं हि भगवान् दीक्षा-मादायोत्पन्न केवलः ॥ चिरं मोदयिता | विश्व-त्रयं तीर्थ प्रवर्त्तयन् ! ॥३८१ ॥ मुदितेषु तदाकर्ण्य, समुद्रविजयादिषु ॥ गृहं गत्वाऽऽब्दिकं दानं, दातुं स्वामी प्रचक्रमे |
॥३८२ ।। इतश्च वलितं वीक्ष्य, नेमि शोकमरातुरा ॥ राजीमती चितौ वज्रा-हतेवाचेतनाऽपतत् ॥ ३८३ ॥ वयस्याः विहितैः शीतो
veeeeeeeeeeee
MeeeveeYEETARINEEDS