________________
उतराध्ययनसूत्रम्
॥१६८॥
दि- दशार्हा:- समुद्रविजयादयो वसुदेवान्ता दश भ्रातरस्तेषां चक्रेण समूहेन ॥ ११ ॥ “ रइआएत्ति" ' रचयितया' न्यस्तया यथाक्रमं तूर्याणां 'सन्निनादेन' गाढध्वनिना 'दिव्येन' प्रधानेन 'गगनस्पृशा' नभोगणव्यापिना उपलक्षितः || १२ || एतादृश्या पूर्वोक्तया 'ऋद्धया' विभूत्या, 'द्युत्या च' दीप्त्या उत्तमया उपलक्षितः सन् निजकाद्भवनाद् 'निर्यातो' निष्क्रान्तो वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवःप्रधानो भगवानरिष्टनेमिर्गतश्च जगज्जनमनोहरैर्महामहैर्मण्डपासन्न प्रदेशमिति सूत्रषट्कार्थः || १३ || तदा च
वीक्ष्यायान्तं गवाक्षस्था, नेमिं राजीमती कनी || वचोऽगोचरमापन्ना - ऽऽनन्दमेवमचिन्तयत् ।। २६३ ।। किमाश्विनोऽसौ सूर्यो वा, स्मरो वा मघवाऽथवा ।। मर्त्यमूत्तिं श्रितः पुण्य-प्राग्भारोऽसौ ममैव वा १ ॥ ३६४ ॥ भर्त्ता मे विदधे येन, वेधसाऽसौ सुमेधसा ॥ कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने १ || ३६५ || काहं किं जायते कोऽसौ, कालस्तिष्ठाम्यहं क्व वा ? ॥ इत्यज्ञासीन्न सा ने मि-दर्श - नोत्थमुदा तदा ! || ३६६ ॥ अत्रान्तरे स्फुरत्तस्या, मंतु दक्षिणमीक्षणम् । तच्चोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ।। ३६७ ।। ऊचुः सख्यो हतं पापं, मा खिद्यस्व महाशये ! || इयतीं भुवमायातो, न हि नेमिलिस्यते ! ॥ ३६८ ॥ राजीमती जगौ जाने, स्वभाग्यप्रत्ययादहम् ।। इहागतोऽपि गन्ताय - मुद्दोढा न तु मां प्रभुः ! || ३६६ || अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयतिमूलम् — अह सो तत्थ निज्जतो, दिस्स पाणे भयहु ए । वाडेहिं पंजरेहिं च, सन्निरुद्ध सुदुक्खि ॥ १४ ॥ जीवीतं तु संपत्ते, मंसट्टा भक्खिव्वए । पासित्ता से महापरणे, साहि पडिपुच्छइ कस्स अट्ठा इमे पाणा, एए सव्वे सुहेसिणो । वाडेहिं पंजरेहिं च, सन्निरुद्ध अ अच्छहिं
॥
॥
१५ ॥
१६ ॥
VENEENEEVEENEREYE
अध्य०२२
॥१६८॥