SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१६५॥ दृष्ट्वा भृशं खिद्यामहे वयम् ॥ ३२८ ॥ कन्योद्वाहं तदस्मै त्वं वत्सोपायेन केनचित् ॥ वैद्योऽरोचकिने भोज्यं भेषजेनेव रोचय ! ॥ ३२६ ॥ तत्प्रपद्य मुकुन्दोऽपि दिव्यास्त्राणि मनोभुवः || कार्ये तत्रादिशद्भामा - रुक्मिण्याद्या निजाङ्गनाः ! ।। ३३० ॥ तदा कामिनः कामं, वर्त्तयन्कामशासने ।। विकारकारितां कार - स्कराणामपि शिक्षयन् || ३३१ || मधुमत्तैर्मधुकरै - मधुरारवपूर्वकम् ॥ भुज्यमानोत्फुल्लपुष्प- स्तबकव्रततिव्रजः ॥ ३३२ ॥ पिकानां पञ्चमोद्गीति - शिक्षणैककलागुरुः || मलयानिलकल्लोल - लोलद्विरहिमानसः ॥ ३३३ ॥ उत्साहितानङ्गवीरो, जगजनविनिर्जये ॥ मधूत्सवः प्रववृते, विश्वोत्सवनिबन्धनम् ॥ ३३४ ॥ [ चतुर्भिः कलापकम् ] तदा कृष्णोपरोधेनाऽवरोधे तस्य पारगः।। ऋतूचिताभिः क्रीडाभि - चिक्रीडाऽकामविक्रियः ॥ ३३५ ॥ व्यतीतेऽथ वसन्तत, ग्रीष्मतुः समवातरत् ॥ राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ॥ ३३६ ॥ तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना ॥ क्रीडागिरौ रैवतके, विजहार तदाग्रहात् ॥ ३३७ ॥ जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः ॥ चकार विश्वालङ्कारो निर्विकारो जगद्गुरुः ॥ ३३८ ॥ रामा रामानुजस्याथ, प्राप्यावसरमन्यदा ।। सप्रश्रयं सप्रणयं, सहासं चेति तं जगुः ||३३६|| देवरादो देवराज - जित्वरं रूपमात्मनः । वपुश्चेदं सदारोग्य-सौभाग्यादिगुणाश्चितम् ॥ ३४० ॥ शच्या अपि स्मरोन्माद - करमेतच्च यौवनम् || अनुरूपवधूयोगा सफलीकुरु धीनिधे ! || ३४१ ।। [युग्मम् ] 'विना हि भोगान् विफलं, रूपाद्यमवकेशिवत् ॥ विना नारिं च के भोगाः १, भोगरत्नं हि सुन्दरी ! ॥ ३४२ ॥ भवेद्विनाङ्गनां नाङ्ग-शुश्रुषा मज्जनादिना ॥ अस्त्रीकस्य मनोभीष्टं निःस्वस्येव क भोजनम् १ || ३४३ ॥ रत्नानीव विना खानिं नन्दनाः स्त्रीकस्यातिथिर्भितो - रिवार्थमपि नाश्नुते ! ।। ३४४ ।। यामिन्यपि कथं याति, यूनो युवतिमन्तरा १ ॥ विनाङ्गनाम् १ ॥ १ भोगान् विना हि विफलं इति “घ” पुस्तके प्रथमपादः ॥ अध्य० २२ ॥१६५॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy