________________
उत्तराध्ययनसूत्रम् ॥१६३॥
SEN
जयध्य०२२ व्याख्या–अत्र 'लक्खणस्सरसंजुश्रोत्ति' स्वरलक्षणाणि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । 'अष्टसहस्रलक्षणधरः,
॥१६३॥ अष्टोत्तरसहस्रसंख्यशुभसूचकरेखात्मकचक्रादिधारी । 'गौतमो' गौतमगोत्रः''कालकच्छविः' कृष्णत्वक् ॥ ५॥ “झसोदरो" झषोमत्स्यस्तदाकारमुदरं यस्य सः तथा, तस्यारिष्टनेमे याँ, कत्तु मितिशेषः, राजीमती कन्यां । याचते केशवस्तत्पितरमिति प्रक्रमः ॥६॥ सा च कीदृशी ! इत्याह- अथेत्युपन्यासे राज उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुक्षिणी, नाऽधोदृष्टित्वादिदोषदुष्टा 'विज्जुसोग्रामणिप्पहत्ति' विशेषेण द्योतते विद्यत्सा चासौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्रयार्थ ॥७॥राजीमतीयाचनं चैवम् -
अथान्यदा विभुः क्रीडन् , शस्त्रशाला हरेययौ ।। शाङ्ग ञ्च धनुरादित्सु-रारक्षेणैवमीच्यत ।। ३०२ ॥ विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः ।। गिरीशमन्तरा को वा, नागेन्द्रं हारतां नयेत् ।। ३०३ ।। तत्कुमार ! विमुश्चास्य, चापस्य ग्रहणाग्रहम् ॥ अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ।। ३०४ ॥ तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः ।। वेत्रवन्नमयन्नुच्चै-लीलयाऽधिज्यमातनोत् ॥ ३०५ ॥ तेनेन्द्रचापकल्पेन, शोभितो नेमिनीरदः ॥ टङ्कारध्वनिर्गनाभि-विश्वं विश्वमपूरयत् ।। ३०६ ॥ त्यक्वाथ चापमादाय, चक्रं भाचक्रभासुरम् ।। अंगुल्याऽभ्रमयद्धम-चक्री चाक्रिकचक्रवत् ॥ ३०७॥ जनाईनोऽपि यां गहणा-नायासं लभते भृशम् ।। हित्वा चक्रं गदां ताम-प्युद्दधौ यष्टिवद्विभुः । ॥ ३०८ ।। तां च मुक्त्वा पाश्चजन्यः, स्वामिना योजितो मुखे ।। स्मरेनीलार| विन्दस्थ-राजहंसश्रियं दधौ ॥ ३० ॥ध्माते च स्वामिना तस्मिन् , विश्व बधिरतां दधौ | चकंपिरेऽचलाः सर्वे-ऽचलाप्यासीचलाचला ॥ ३१०॥ चुनुभुर्वार्द्धयो वीरा, अप्युयाँ मूच्छयाऽपतन् । किमन्यत्तस्य शब्देन, वित्रेसुस्त्रिदशा अपि ! ॥३११॥
VEGVEGVEGEVEGVEGVEGVEVerererere