________________
अध्य०२२ ॥१५॥
उत्तराध्य
KI षड्भिः, सोऽगासिहपुरं क्रमात ॥ २१७ ॥ हरिणन्दी तमायान्तं, श्रुत्वाभ्यागात्प्रमोदभाक् ॥ तं चानमन्तमालिंग्य, चुम्बन्मौलौ मुह
IT मुहुः ॥ २१८ ॥ नमन्तं तं च मातापि, पाणिभ्यामस्पृशन्मुहुः॥ स्नुषाश्च प्रीतिमत्याचा, नेमुः श्वशुरयोः क्रमान् ॥ २१६ । उक्त ॥१५॥ विमलबोधेन, श्रुत्वा तद्वृत्तमादितः ॥ पितरौ प्रापतुहर्ष, तत्संगोत्थमुदोऽधिकम् ॥ २२० ॥ विससर्ज कुमारोऽथ, भूपान्भूचरखेचरान् ।।
तं च न्यस्यान्यदा राज्ये, राजा प्रव्रज्य सिद्धवान् ।। २२१ ।। तुङ्ग रहद् हैभूमि, भूषयन्भूषणैरिव ।। ततोऽपराजितोर्वीश-श्चिरं राज्यमपालयत् ॥ २२२ ॥ स राजाऽन्येद्यरुद्याने, गतो मृा जितस्मरम् ।। वृतं मित्रर्वधूभिश्च, महेभ्यं कश्चिदैक्षत ॥ २२३ ॥ गीतासक्त ददानं च, दानमत्यर्थमर्थिनाम् ॥ तं वीक्ष्य मापतिः कोऽसा-विति पप्रच्छ सेवकान् ? ।। २२४ ।। असौ समुद्रपालस्य, सार्थेशस्य सुतः प्रभो ! ॥ अनंगदेवो नाम्नेति, प्रोचिरे तेऽपि भूभुजे ॥ २२५ ।। वाणिजा अपि यस्यैव-मुदाराः परमर्द्धयः ।। सोऽहं धन्य इति ध्यायं-स्ततोऽगाद्भधवो गृहम् ॥ २२६ द्वितीये च दिने वीक्ष्य, शबं यान्तं जनैवतम् ।। राज्ञा कोऽसौ मृत इति, पृष्टा भृत्या इदं जगुः ॥ २२७ ॥ क्रीडन्नदर्शि यः काम-मुद्याने ह्यस्तने दिने ॥ स एवानंगदेवोऽसौ, द्राग् विशूचिकया मृतः! ॥ २२८ ॥ अहो ! अशाश्वतं विश्व', विश्वेऽस्मिन् सान्ध्यरागवत् ।। ध्यायनिति ततोऽध्यास्त, वैराग्यं परमं नृपः ।। २२६ ।। इतश्च यः कुण्डपुरे, पुरा दृष्टः स केवली ।। तत्रागादन्यदा दीक्षायोग्यं ज्ञानेन तं विदन् ।। २३० ॥ धर्म श्रुत्वा ततो न्यस्य, राज्यं पुत्रेऽपराजितः ॥ तत्पार्वे प्रावजत्प्रीति-मतीविमलबोधयुक् ।। २३१ ।। तपो व्रतं च सुचिरं, तीनं कृत्वा त्रयोपि ते ॥ विपद्यैकादशे कल्पे--ऽभुवन्निन्द्रसमाः सुराः ॥ २३२ ॥ इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ श्रीषेणाहोऽभवद्भपः, श्रीमती तस्य च प्रिया ।। २३३ ॥ स्वप्ने शंखोज्ज्वलं पूर्णचन्द्रं मातुः प्रदर्शयन् ।। जीवोऽपराजितस्यागा-तस्याः कुक्षौ दिवश्च्युतः ।। २३४ ॥ सा सुतं समयेऽसूत, पूर्णेन्दुमिव पूर्णिमा ।।
AAAAAAAAADAN
ASEVGEGEVEEVEVE EVEVEVEVEVEY