________________
उत्तराध्य
यनसूत्रम्
॥१५३॥
! ।। १३० ।। अथेत्यूचे कुमारस्त-मरे ! सज्जो भवाजये | अबलायां बलमदः, किं दुर्मद करोषि रे ! ।। १३१ ॥ सार्थः प्रेत्यगतौ भीरो-रस्यास्त्वं भवितासि रे ! ब्रुवन्निति ततः सोऽपि, डुढौके योद्धमुद्धतः ।। १३२ ।। खड्गाखड्गि चिरं कृत्वा, तौ मिथो घातवश्विनौ || दोयुद्धेन न्ययुध्येतां, कम्पयन्तौ द्रुमानपि ।। १३३ ।। नागपाशैर्वबन्धाथ, तं पुन्नागं स खेचरः ॥ तांश्च सोऽत्रोटयत्तूर्णं, जीर्णरज्जूरिव द्विपः ।। १३४ ।। विद्याधरोऽथ विद्यास्त्र :, प्रजहारापराजितम् ।। तानि न प्राभवन्पुण्य-- बलाढ्य तत्र किंचन ! ।। १३५ अथोदिते खौ मूर्ध्नि, कुमारेणासिना हतः । पपात मूच्छितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ।। १३६ ।। स्वस्थीकृत्य पुनर्योद्ध कुमारेणोदितस्ततः ॥ उवाच खेचरः साधु, मामजैषीर्महाभुज ! ।। १३७ ।। विद्येते मित्र ! वस्त्रान्त - ग्रन्थौ मे मणिमूलिके ।। घृष्ट्वाऽम्बुना मणेदेहि, प्रहारे मम मूलिकाम् ।। १३८ ।। कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः ॥ पृष्टोऽपराजितेनेति, स्ववृत्तान्तं जगाद च ॥ १३६ ॥ असाव तसेनस्य, सुता विद्याधरप्रभोः ।। रत्नमालाभिधा शालिगुणरत्नालिमालिनी ।। १४० ॥ रक्ताऽपराजिते भावि भर्त्तरि ज्ञानिनोदिते ।। अभ्यर्थिता मयाऽन्येद्यु- विवाहायैवमब्रवीत् ।। १४१ ।। [ युग्मम् ] भर्त्ताऽपराजितो मे स्या - दहेन्मां दहनोऽथवा ! ।। तदाकयऽकुपं सुर - कान्तः श्रीषेणसूरहम् ॥ १४२ ॥ विद्या बह्वीः कृतेऽमुष्या दुःसाधा अप्यसाधयम् । एनां च बहुधाऽयाचं न त्वियं माममानयत् ॥ १४३ ॥ अथास्याः पूर्यतां वन्हि - दाहात्सन्धेतिधीः क्रुधा || एनामिहानयं हृत्वा, हत्वाऽग्नौ क्षेप्तुमुद्यतः ! ॥ १४४ ॥ अस्या मम च पुण्यौघैराकुष्टेन त्वया पुनः ॥ मत्तोऽसौ रक्षिताऽहं च, स्त्रीहत्याभाविदुर्गतेः ॥ १४५ ॥ परं परोपकारिन् ! त्वं कोऽसीति ब्रूहि सन्मते ! ।। तेनेत्युक्ते ऽवदद्भ प-भूवो नामादि मंत्रिसूः ॥ १४६ ॥ तदाकर्ण्य तदा रत्न- मालाऽन्तमु मुदेऽधिकम् ॥ कामं 'कामषक्ता
१ परोपकारी 'घ' पुस्तके ॥ २ कामवाणनाम् ॥
अध्य०२२ ॥१५३॥