________________
उत्तराध्ययनसूत्रम् ॥१४१॥
अध्य०२१ ॥१४॥
रपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह
मूलम्-अणेग छंदा मिह माणवेहि, जे भावओ संपकरेइ भिक्खू ।
भयभेरवा तत्थ उइंति भीमा, दिव्वा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥ व्याख्या अनेके 'छन्दा' अभिप्राया भवन्तीति गम्यं, “मिहत्ति" मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या 'सम्प्रकरोति' भृशं विधत्ते, 'भिखुत्ति' अपेर्गम्यत्वाद्भिक्षुरपि कर्मवंशगः, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन-भयजनकत्वेन भैरवाः-भीषणा भयभैरवाः तत्रेतिः व्रतप्रतिपत्तो 'उद्यन्ति' उदयं यान्ति 'भीमाः' रौद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं, दिव्या मानुष्यका अथवा तैरचा उपसर्गाः इति शेषः ॥ १६ ॥ तथा
मूलम्-परीसहा दुविसहा अणेगे, सीदंति जत्था बहुकायरा नरा।
से तत्थ पत्ते न वहिज भिक्खू ,संगामसीसे इव नागराया ॥ १७॥ व्याख्या–परीषहा 'दुर्विषहाः' दुस्सहाः अनेके उद्यन्तीति योगः, 'सीदन्ति' संयमं प्रति शिथिलीभवन्ति "जत्था" इति यत्र येषूपसर्गेषु परीषहेषु च सत्सु बहु-भृशं कातराः नराः, 'से' इत्यथ 'तत्र' तेषु प्राप्तो 'न व्यथेत' न सत्त्वाच्चलेद्भवान् भिक्षुः सन् संग्रामशीर्ष इव नागराजः॥ १७ ॥
मूलम्-सीतोसिणा दंसमसाय फासा, आयका विविहा फुसंति देहं ।
AGE ROVEEEEEEEEE