SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१३३॥ अध्य०२० ॥१३॥ NEVGVEVGYZACEVEREReveren ज्येत्यर्थः ।। ४८ ॥ यस्तु प्रान्तेऽपि मोहेन दुरात्मतां तथात्वेन न जानाति तस्य किं स्यादित्याह मूलम्-निरहिआ नग्गरुई उ तस्स, जे उत्तिमझें विवज्जासमेइ । इमेवि से नत्थि परेवि लोए, दुहओवि से झिज्झइ तत्थ लोए ॥४६॥ व्या०—निरर्थिका 'तु' शब्दस्यैवकारार्थस्येह सम्बन्धान्निरर्थिकैव निष्फलैव नाग्न्ये-श्रामण्ये रुचिस्तस्य यः 'उत्तिमति' सुब्ब्यत्ययादपेश्च गम्यत्वादुत्तमार्थेऽपि प्रान्तसमयाराधनारूपे, आस्तां पूर्व, 'विपर्यासं ' दुरात्मतायामपि सुन्दरात्मताज्ञानरूपं 'एति' गच्छति, यस्तु मोहमपोह्य दुरात्मतां तथात्वेन जानाति, तस्य तु स्वनिन्दादिना स्यादपि किञ्चत्कलमिति भावः । ततश्च " इमेवित्ति" अयमपि प्रत्यक्षो लोक इति योगः, 'से' तस्य नास्ति । न केवलमयमेव, किन्तु परोऽपि भवान्तररूपः । तत्रेहलोकाभावः कायक्लेशहेतुलोचादिसेवनात् , पर लोकाभावश्च कुगतिगमनात् । एवं च "दुहमोवित्ति" द्विधापि ऐहिकपारतिकार्थाभावेन स जन्तुः "झिज्झइति" ऐहिकपारत्रिकार्थसम्पत्तिका मतोजनान् वीक्ष्य, धिग्मामुभयभ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति, 'लोके' जगति ॥ ४६ ॥ ततोऽसौ यथानुतापमापद्यते तथा दर्शयति मूलम्-एमेवहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं । कुररी विवा भोगरसाणुगिद्धा, निरट्ठसोआ परितावमेइ ॥५०॥ - व्या०–एवमेवोक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाछन्दाः-स्वरुचिकल्पिताचाराः, कुशीलाश्च-कुत्सितशीलास्तद्रूपास्तत्स्वभावाः, EVEELGESTAVEVATEVERAGA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy