________________
उतराध्य
यन मूत्रम्
|| 8 ||
निहरंति मयं पुत्ता, पिचरं परमदुक्ख । पिरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ॥ १५ ॥ तेज दव्वे, दारे परिरक्खिए । कोलंतन्ने नरा राय, हट्टतुट्ठा अलंकि ॥ १६ ॥ विजं कयं कम्मं, सुहं वा जइ वाऽसुहं । कम्मुखा तेण संजुत्तो, गच्छइ उ परं भवं ॥ १७॥ व्याख्या – अभयं पार्थिव ! तव न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति 'अभयदाता च' प्राणिनां प्राणत्राणकर्ता "भवाहिय" त्ति भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसायां प्रसज्जसि ? नरकहेतुरियं कत्तु नोचितेति भावः । किञ्च – यदा 'सर्व' कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, 'अवशस्य' अस्वतन्त्रस्य 'ते' तव ततोऽनित्ये जीवलोके किं राज्ये प्रसज्जसि ? ॥ अनित्यतामेव भावयति - जीवितं चैव रूपं च विद्युत्सम्पातो - विद्युच्चञ्चलं विद्युत्सम्पातचञ्चलं 'यत्र' जीविते रूपे च त्वं मुह्यसि हे राजन् ! 'प्रेत्यार्थं ' परलोककार्यं नावबुध्यसे ॥ तथा दाराश्च सुताचैव मित्राणि च तथा बान्धवाः जीवन्तं ‘अनुजीवन्ति' तदर्जितवित्ताद्युपभोगेन मृतं नानुव्रजन्त्यपि चशब्दस्याऽप्यर्थत्वात् कथं पुनः सहायाः स्युरित्यतः कृतध्नेषु तेषु नास्था कार्येति भावः || "निहरंति" निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि पितरोऽपि तथा पुत्रान् "बंधू" ति बन्धवश्च बन्धूनिति शेषः, ततो राजंस्तप: 'चरेः' आसेवेथाः || 'ततो' निस्सारणानन्तरं 'तेन' पित्रादिनाऽर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैर्दारैश्चेति गम्यं, अन्ये नरा राजन् ! 'हृष्टतुष्टा अलंकृताः तत्र हृष्टाः - बहिः पुलकादिमन्तः तुष्टाःआन्तरप्रेमभाजः, अलंकृताः-विभूषिताः यतः ईदृशी भवस्थितिस्ततो राजंस्तपश्चरेरिति सम्बन्धः || मृतस्य का वार्त्ता ? इत्याह- तेना
अध्य०१८ 11811