________________
उत्तराध्य
यनसूत्रम्
॥ १२६॥
हेनृप ! तामनाथतामेक चित्तो 'निभृतो' स्थिरः शृणु । का पुनरसौ ? इत्याह- ' निर्ग्रन्थधर्मं ' साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, 'सीदन्ति' तदनुष्ठानं प्रति शिथलीभवन्ति । 'एके' केचन 'बहु' प्रकामं यथास्यात्तथा 'कातरा' निस्सत्त्वा 'नरा' मनुष्याः । यद्वा बहुत इषन्निःसत्त्वाः, सर्वथा निःसत्त्वानां हि निर्ग्रन्थमार्गाङ्गीकार एव मूलतोऽपि न स्यादित्येवमुक्त' । सीदन्तश्च ते नात्मानमन्यांश्च रचितु ं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ ३८ ॥ तामेव दर्शयति
मूलम् - जो पव्वइत्ता ण महव्वयाई, सम्मं च नो फासयई पमाया । अणिग्गहप्पा यरसेसु गिद्ध, न मूल छिंदइ बंधणं से ॥३६॥
व्या—यः प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादात् । 'अनिगृहीतात्मा ' अवशीकृतात्मा बन्धनं रागद्वेषात्मकम् ॥ ३६ ॥ मूलम् - उत्तया जस्स य नत्थि काई, इरियाई भासाइ तहसणाए । आयाणनिक्खेव दुगंछराए, न वीरजायं अणुजाइ मग्गं ॥४०॥
व्या—‘आयुक्तता ' सावधानता यस्य नास्ति काचिदतिस्वल्पापि । 'श्रयाणेत्यादि ' लुप्तविभक्तिदर्शनादादाननिक्षेपयोरुपकरणग्रहणन्यासयोः, तथा जुगुप्सनायां परिष्ठापनायां । इहोच्चारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स मुनिर्वीरैर्यातो गतो वीरयातस्तं नानुयाति 'मार्ग' सम्यक्दर्शनादिकं मुक्तिपथम् ॥ ४० ॥ तथा च
मूलम् - चिरंपि से मु'डरुई भवित्ता, अधिरव्वए तवनिअमेहिं भट्ठे ।
अध्य० २०
॥ १२६॥